पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
दशमः सर्गः ।

 विम्बितं भृतपरिस्रुति जानन् भाजने जलजमित्यबलायाः।
 घ्रातुमक्षि पतति भ्रमरः स भ्रान्तिभाजि भवति क्व विवेकः ५

 विम्बितमिति ॥ भृता परिस्रुद्वारुणी यस्मिंस्तस्मिन् । 'परिस्रुद्वरुणात्मजा' इत्यमरः । भाजने पानपात्रे बिम्बितं प्रतिबिम्बितमबलाया अक्षि जलजमिति जानन् । सादृश्यात्तथा भ्राम्यन्नित्यर्थः । भ्रमरः घ्रातुं पतति स्म । तथा हि- भ्रान्तिभ्रंमणं, विपरीतज्ञानं च तद्भाजि विवेको विचारः क्व भवति । न क्वापीत्यर्थः । अत्र भ्रमरस्याक्षिजलजभ्रान्तेर्भ्रान्तिमदलंकारः । तत्समर्थकत्वाच्छ्लेषमूलातिशयो- क्त्युत्थापितोऽर्थान्तरन्यासः । तेन सहाङ्गाङ्गिभावेन संकरः ॥ ५॥

 दत्तमिष्टतमया मधु पत्युर्बाढमाप पिबतो रसवत्ताम् ।
 यत्सुवर्णमुकुटांशुभिरासीच्चेतनाविरहितैरपि पीतम् ॥ ६॥

 दत्तमिति ॥ इष्टतमया दत्तं मधु मद्यं कर्तृ पिबतः पत्युः रसवत्तां प्रेयसी- करस्पर्शादतिस्वादुतामाप । अतिशायने मतुप् । बाढं ध्रुवमित्युत्प्रेक्षा । कुतः । यद्यस्माच्चेतनाविरहितैरचेतनैः सुवर्णमुकुटांशुभिरपि । मधुनि प्रसृतैरिति भावः । पीतं पीतवर्ण पीतं चासीत् । अत्र पीतमिति श्लेषमूलातिशयोक्त्या पीतिम्नः क्रियाभेदाध्यवसायेनाचेतनांशुकर्तृकपानक्रियानिमित्ता प्रेयसीस्वहस्तदानाहितरस- वत्तोत्प्रेक्षा । तथा च यदचेतनानामपि पेयं तच्चेतनानां किं वक्तव्यमित्यर्थाप- त्तिध्वननादलंकारेणालंकारध्वनिः ॥ ६॥

 खादनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र ।
 अन्यमन्यदिव यन्मधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥ ७ ॥

 स्वादनेनेति ॥ सुतनोः कर्त्र्या: स्वादनेनास्वादनेन ओष्ठतः ओष्ठाद्रसः स्वादोऽत्र मधुनि अविचारादसंशयात् समचरिष्ट संक्रान्तः । संपूर्वाञ्चरतेर्लुङ् । 'समस्तृतीयायुक्तात्' (१|३।५४) इत्यात्मनेपदम् । कुतः । यद्यस्मात्तदेव पूर्वभु- क्तमेव मधु अन्यदिवापूर्वमिवान्यमपूर्वमिष्टं प्रियं स्वादं रसं यूनोऽतनिष्ट । तनोते- र्लुङि तङ् । ओष्ठस्पर्शानन्तरमेव रसान्तरप्रादुर्भावादनन्तरन्यायात्तद्रससंक्रमणो- त्प्रेक्षा । सा चाविचारादिति व्यञ्जकप्रयोगाद्वाच्या ॥ ७ ॥

 बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते ।
 आननैर्मधुरसो विकसद्भिर्नासिकाभिरसितोत्पलगन्धः ॥ ८॥

 विभ्रताविति ॥ रागिभिः कामिभिरतिमात्रं मधुरतां स्वादुतां प्रियत्वं वा विभ्रतौ 'मधुरं रसवत्स्वादु प्रियेषु मधुरोऽन्यवत्' इति विश्वः । तस्य भावस्ताम् । विकसद्भिर्विकसन्तीभिश्च विकसद्भिः तृष्णया विजृम्भमाणैः । 'नपुंसकमनपुंस- केनैकवच्चास्यान्यतरस्याम्' (१।२।६९) इति नपुंसकैकशेषः । आननैः मधुरसो मद्यरसः नासिकाभिर्घ्राणैरसितोत्पलगन्धश्च युगपदेव पपाते पीतौ । भिन्नेन्द्रिय-