पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४०
शिशुपालवधे

ग्राह्यावपि गन्धरसौ युगपत्स्वेन्द्रियसंबन्धाद्युगपद्गृहीतावित्यर्थः । अत्र मनस आशु- संचाराद्यौगपद्याभिमानः । शतपत्रशरव्यतिभेदवदित्यणुपरिमाणवादिनः । वास्तव- मेव यौगपद्यमिति मध्यमपरिमाणवादिनः । सार्वपथीनास्तु कवय इत्यलमतिपल्लवि- तेन । अत्र रसगन्धयोः प्रकृतयोरेकपानक्रियासंबन्धात्तुल्ययोगिताभेदः ॥ ८ ॥

 पीतवत्यभिमते मधुतुल्यस्वादमोष्ठरुचकं विदङ्घौ ।
 लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः॥९॥

 पीतवतीति ॥ विददङ्घौ विदंष्टुमिच्छौ । उपदंशेच्छावतीत्यर्थः । दंशेः सन्न- न्तादुप्रत्ययः । अभिमते वल्लभे मधुना तुल्यस्वादं तुल्यरसं । तुल्यत्वं च हृद्यता- मात्रेण नान्यथा विलक्षणरसस्य अनुपदंशत्वात् ओष्ठो रुचकमाभरणमिवेत्युप- मितसमासः । रोचनायां तु रुचकमश्वाभरणमाल्ययोः' इति विश्वः । तमोष्ठ- रुचकमोष्ठश्रेष्ठं पीतवति सति वियता अपगच्छतापि । इणो लटः शनादेशे 'इणो यण' (६|४|८१) इति यणादेशः । युवत्याः युवतेः । 'ङिति ह्रस्वश्व' (१।४।६) इति वा नदीत्वादाडागमः । यावकेनालक्तकेन परिरक्ततया दन्तनि- ष्पीडनकृतेन रागेण हेतुना आत्मा स्वरूपं लभ्यते स्म लब्धः । पुनरुद्भूतमित्यर्थः । अत्राधरपानादपगतस्यापि यावकस्य रागप्रादुर्भावनिमित्ता विरोधगर्भा पुनरुद्भवो- त्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या च ॥ ९ ॥

 कस्यचित्समदनं मदनीयप्रेयसीवदनपानपरस्य ।
 स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥१०॥

 कस्यचिदिति ॥ समदनं यथा तथा मदयतीति मदनीयं मदकारि । 'कृत्य- ल्युटो बहुलम्' (३।३।११३) इति कर्तर्यनीयप्रत्ययः । तस्य प्रेयसीवदनस्य पानं परं प्रधानं यस्य तस्य कामुकत्वात् प्रियामुखपानासक्तस्य कस्यचित्कामिनः सकृदिव स्वादितोऽबाहुल्येन पीतः । इवशब्दो वाक्यालंकारे । आसव एव, प्रत्युत वैपरीत्ये इति गणव्याख्याने । क्षणं विदंशपदे उपदंशस्थानेऽभूत् । अन्येषां मधुपानलोलुपानामधरास्वाद उपदंशः । अस्य त्वधरपानैकपरस्य मध्येवोपदंश इत्यर्थः । अधरपानस्योपदंशत्वसंबन्धेऽप्यसंबन्धः आसवस्य तदसंबन्धेऽपि संबन्ध इत्यतिशयोक्त्योरसापेक्षत्वात्संसृष्टिः ॥ १० ॥

 पीतशीधुमधुरैर्मिथुनानामाननैः परिहृतं चषकान्तः ।
 व्रीडया रुददिवालिविरावैर्नीलनीरजमगच्छदधस्तात् ॥ ११ ॥

 पीतेति ॥ पीतशीधूनि पीतमद्यानि अत एव मधुराणि मनोज्ञानि तैमिथु- नानां स्त्रीपुंसानामाननैः चषकान्तः पानपात्राभ्यन्तरे । 'चषकोऽस्त्री पानपा- त्रम्' इत्यमरः । परिहृतं त्यक्तं नीलनीरजं वासनार्थे निक्षिप्तं नीलोत्पलं ब्रीडया परिहारलज्जया अलिविरावैः रुददिवाधस्तादगच्छत् । अत्र मद्यापगमनिमित्तस्य नीलनीरजाधोगमनस्य रोदनविशिष्टलज्जाहेतुकत्वोत्प्रेक्षा । सा चालिविरावैरिति

व्यधिकरणकारिपरिणामोजीवितेति संकरः ॥ ११ ॥