सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३५
नवमः सर्गः ।

च सकरप्रयोग हस्ताभिनयसहितं तच्चतुरं च तद्वचश्च सुतनोः स्त्रियाः प्रकृतिस्थ- मेव स्वभावसिद्धमेव सदपि निपुणेन निपुणाचार्येणागमितमभ्यासितम् । अत एव स्फुटं प्रथितं यन्नृत्यं तस्य लीलेव लीला यस्य तत्तथोक्तमभवदिति निदर्शनालं- कारः । तया नर्तक्युपमा गम्यते ॥ ७९ ॥

 अथ कस्याश्चित्सपत्नीनामग्रहणाहूतायाः कान्तोपालम्भं विशेषकेणाह-

 तदयुक्तमङ्ग तव विश्वसृजा न कृतं यदीक्षणसहस्रतयम् ।
 प्रकटीकृता जगति येन खलु स्फुटमिन्द्रताय मयि गोत्रभिदा॥८॥

 तदिति ॥ अङ्गेत्यामन्त्रणे । विश्वसृजा विधात्रा तव ईक्षणसहस्रतयं नेत्रसह- स्त्रसमूहः । 'संख्याया अवयवे तयप्' (५।२।४२) न कृतं न सृष्टमिति यत्तद- युक्तम् । कुतः । येन कारणेन मयि विषये स्फुटं प्रत्यक्षमेव गोत्रभिदा नामभे- दिनाद्रिभेदिना च । 'गोत्रं नाम्नि कुलेऽप्यद्रौ' इति यादवः । त्वयेति शेषः । अद्य इन्द्रता जगति प्रकटीकृता खलु । अत्र गोत्रभिदेति श्लेषानुप्राणितं सहस्रा- क्षत्वमुत्प्रेक्ष्यते ॥ ८॥

 न विभावयत्यनिशमक्षिगतामपि मां भवानतिसमीपतया ।
 हृदयस्थितामपि पुनः परितः कथमीक्षते बहिरभीष्टतमाम् ॥ ८१॥

 नेति ॥ अनिशमक्षिगतां चक्षुःसंनिकृष्टामपि, द्वेष्यामिति च गम्यते । 'द्वेष्ये त्वक्षिगतः' इत्यमरः । मामतिसमीपतया भवान्न विभावयति । 'शेषे प्रथमः' (१।४।१०८) इति प्रथमपुरुषः । इन्द्रियसंनिकृष्टमपि न लक्ष्यत इति विरोधा. भासनार्थोऽपिशब्दः । परमार्थस्तु द्वेष्यत्वादतिसामीप्याच्चाविभावनं न चित्रमिति भावः । अभीष्टतमा पुनर्हदयस्थितां हृदयादनपेताम्, अन्तर्हितामिति च गम्यते । अत एव विरोधाभासकोऽपिशब्दः । बहिः पुरतः कथं भवान् ईक्षते इदं तु चित्रम् । अतिसामीप्यव्यवधानस्यापि दर्शनप्रतिबन्धकत्वादिति भावः । प्रेमास्पदं वस्तु परोक्षमप्यपरोक्षमीक्षते इतरदपरोक्षमपि परोक्षमेवेति तात्पर्यार्थः । विरोधा- भासयोः संकरः ॥८१ ॥

 इति गन्तुमिच्छुमभिधाय पुरः क्षणदृष्टिपात विकसद्वदनाम् ।
 वकरावलम्बनविमुक्तगलत्कलकाञ्चि कांचिदरुणतरुणः ॥ ८२ ।।

 इतीति ॥ इत्यभिधाय पुरो गन्तुमिच्छु क्षणं दृष्ट्योः पातेन विकसद्वदनाम् । परस्परदृष्टिपातमात्रगतकोपामित्यर्थः । कांचिन्नायिका तरुणो युवा स्वकरावल- म्बनं प्रियकरेण ग्रहणं तेन विमुक्ता मुक्तबन्धना अत एव गलन्ती भ्रंशमाना कला मधुरा काञ्ची यस्मिन्कर्मणि तद्यथा तथा अरुणत् रुद्धवान् । रुधेर्लङि रुधा- दिभ्यः श्नम्' (३।१|७८)। एषा च कलहान्तरिता ॥ ८२ ॥

 अपयाति सरोषया निरस्ते कृतकं कामिनि चुक्षुवे मृगाक्ष्या ।
 कलयन्नपि सव्यथोऽवतस्थेऽशकुनेन स्खलितः किलेतरोऽपि ॥८३॥