पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३६
शिशुपालवधे

 अपयातीति ॥ सरोषया मृगाक्ष्या निरस्त कामिनि भर्तर्यपयाति निर्याते सति कृतकं कृत्रिमं यथा तथा चुक्षुवे । तन्निर्गमनप्रतिबन्धार्थं क्षुतं कृतमित्यर्थः । 'क्षु शब्दे' भावे लिट् । इतरोऽपि नायकोऽपि कलयन्नपि कृतकोपमिति जानन्नपि अशकुनेन स्खलितः किल निरुद्ध इव सव्यथः सनिर्वेद इवावतस्थे स्थितः । न गत इत्यर्थः । उभावपि समानानुरागाविति भावः । एषा च कलहान्तरिता ॥ ८३ ॥

 आलोक्य प्रियतममंशुके विनीवौ यत्तस्थे नमितमुखेन्दु मानवत्या।
 तन्नूनं पदमवलोकयांबभूवे मानस्य द्रुतमपयानमास्थितस्य ॥८४॥

 आलोक्येति ॥ मानवत्या कोपवत्या स्त्रिया । 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' । प्रियातममालोक्य । स्थित्यासमानकर्तृकत्वात्क्त्वानि- र्देशः । अंशुके विनीवौ प्रियावलोकनाद्विगलितबन्धे सति । भाषितपुंस्कत्वात्पुं- वद्भावः । 'स्त्रीकटीवस्त्रबन्धेऽपि नीविः परिपणेऽपि च' इत्यमरः । नमितमुखेन्दु यथा तथा तस्थे स्थितमिति यत्तत्तस्मान्नम्रमुखावस्थानाद्रुतं शीघ्रम् । प्रियाव- लोकनेक्षण एवेत्यर्थः । अपयानमास्थितस्य प्रयाणं गतस्य मानस्य कोपस्य पदं पदचिह्नमवलोकयांबभूवे । अन्वेषितमित्यर्थः लज्जानिमित्ताया मुखनतेः अन्वे- षणार्थत्वमुत्प्रेक्ष्यते नूनमिति । मानगन्धोऽप्यस्तमित इति भावः ॥ ८४ ॥

 सुदृशः सरसव्यलीकतप्तस्तरसाश्लिष्टवतः सयौवनोष्मा ।
 कथमप्यभवत्स्मरानलोष्णः स्तनभारो न नखंपचः प्रियस्य ॥८५॥

 सुदृश इति ॥ सरसमार्द्रं । नूतनमिति यावत् । तेन व्यलीकेन प्रियकृते- नापराधेन तप्तः तथा यौवनोष्मणा सह वर्तत इति सयौवनोष्मा । किंच स्मरा- नलोष्णः कामाग्निसंतप्तः एवं त्रिविधाग्नितप्तोऽपि सुदृशः वेगेन । अतिदाहदशायामेवेत्यर्थः । आश्लिष्टवत आलिङ्गितवतः प्रियस्य कथमपि कथं वा । कुतो हेतोरित्यर्थः । नखं पचति क्वाथयतीति नखंपचः । पचिरत्र ताप- वाची । 'मितनखे च' (३।२।३४) इति खशप्रत्ययः । 'अरुषिदजन्तस्य मुम्' (६।३।६७) इति मुमागमः । नाभवत् । तथोष्ण ईषदुष्णोऽपि नाभूदित्यर्थः । 'प्रियासङ्गप्रतीकाराः खलु कामिनां संतापा इति भावः । तादृगौष्ण्यसंबन्धेऽप्यसं. बन्धोक्तेरतिशयोक्तिः ॥ ८५ ॥

 दधत्युरोजद्वयमुर्वशीतलं भुवो गतेव स्वयमुर्वशी तलम् ।
 बभौ मुखेनाप्रतिमेन काचन श्रियाधिका तां प्रति मेनका च न८६

 द्धतीति ॥ उरु महदशीतलं स्मरयौवनोष्मभ्यामुष्णमुरोजद्वयं कुचद्वयं दधती भुवस्तलं गता स्वयं साक्षादुर्वशीव स्थितेत्युत्प्रेक्षा । काचन स्त्री अप्र- तिमेन मुखेन बभौ । तां प्रति मेनका मेनकाख्याप्सराश्च श्रिया सौन्दर्येणाधिका नेत्यतिशयोक्तिः । तयोर्यमकेन संसृष्टिः । वंशस्थं वृत्तम् ॥ ८६ ॥

  इत्थं नारीर्घटयितुमलं कामिभिः काममास-
   न्प्रालेयांशोः सपदि रुचयः शान्तमानान्तरायाः।