पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३४
शिशुपालवधे

 कररुद्धेति ॥ दयितोपगतौ प्रियागमने सति अत एव त्वरया विरहितं त्यक्तमासनं यया तया । उत्थितयेत्यर्थः । कयाचिदिति शेषः । अत एव गलितं स्त्रस्तं, अत एव कररुद्धनीवि करगृहीतबन्धं वसनं क्षणं दृष्टा हाटकशिलासदृशी हेमशिलाप्रतिमा स्फुरन्ती ऊरुभित्तिरूरुदेशो यस्मिन्कर्मणि 'हिरण्यं हेम हाटकम्' इत्यमरः । ववसे आच्छादितम् । वसेराच्छादनार्थात्कर्मणि लिट् । ऊरुभित्तिरिवेत्युपमितसमासः । अनोपमयोः संसृष्टिः ॥ ७५ ॥

 पिदधानमन्वगुपगम्य दृशौ युवते जनाय वद कोऽयमिति ।
 अभिधातुमध्यवससौ न गिरा पुलकैः प्रियं नववधूयंगदत् ॥७६॥

 पिदधानमिति ॥ नववधूर्नवोढा अन्वक्पश्चादुपगम्य दृशौ पिदधानं छाद- यन्तं प्रियं दृष्टिच्छादकः कः वद इति ब्रुवते पृच्छते जनाय गिरा वाचा अभिधातुं नाध्यवससौ नोत्सेहे । लज्जयेति भावः । अध्यवपूर्वात् स्यतेः कर्तरि लिट् । किंतु पुलकैय॑गदत् । अत्र प्रियज्ञानस्यार्थस्य लज्जया असंलक्षितस्य पुलकैः प्रकाशनात् सूक्ष्मालंकारः । 'असंलक्षितसूक्ष्मार्थप्रकाशः सूक्ष्म उच्यते' इति लक्षणात् ॥७६॥

 उदितोरुसादमतिवेपथुमत्सुदृशोऽभिभत विधुरं त्रपया ।
 वपुरादरातिशयशंसि पुनः प्रतिपत्तिमूढमपि बाढमभूत् ॥ ७७ ॥

 उदितेति ॥ अभिभर्तृ भर्तृसमक्षम् । 'लक्षणेनाभिप्रती आभिमुख्ये' (२॥१॥ १४) इत्यव्ययीभावः । उदित उत्पन्न ऊरुसादः ऊर्वोर्निश्चेष्टता यस्य तत् अतिवे- पथुमदतिकम्पवत् । एतेन विशेषणद्वयेन प्रत्युत्थानालिङ्गनविरोधेन स्तम्भवेपथू सात्विकावुक्तौ । त्रपया विधुरं विलक्षम् । एतेन लज्जासंचारिणा प्रियवाक्कुण्ठत्व. मुक्तम् । एवं प्रतिपत्तिमूढमपि इतिकर्तव्यतामूढमपि सुदृशो वपुर्बाढं भृशमादरा- तिशयशंसि मुखरागादिलिङ्गैरादरविशेषव्यञ्जकमभूत् । सत्यादरे किमुपचारैरिति भावः ॥७७ ॥

 परिमन्थराभिरलघूरुभरादधिवेश्म पत्युरुपचारविधौ ।
 स्खलिताभिरप्यनुपदं प्रमदाः प्रणयातिभूमिमगमन्गतिभिः ॥७८॥

 परीति ॥ प्रमदा अधिवेश्म निजवेश्मनि पत्युरुपचारविधौ प्रत्युत्थानादि- कर्मणि अलघोर्महत ऊरुभरात् परिमन्थराभिरलसाभिः अनुपदं पदे पदे स्खलि- ताभिरपि गतिभिः प्रणयातिभूमि प्रेमप्रकर्षमगमन् । परप्रेमास्पदीभूता इत्यर्थः । प्रत्युत्थानादपि स्खलितगमनमेव पत्युः प्रीतिकरमभूदिति भावः । स्त्रीणां स्खलनं पत्युः प्रीतिकरमिति विरोधाभासोऽलंकारः ॥ ७८ ॥

 मधुरोन्नतभ्रु १ललितं च दृशोः सकरप्रयोगचतुरं च वचः ।
 प्रकृतिस्थमेव निपुणागमितं स्फुटनृत्यलीलमभवत्सुतनोः ॥७९॥

 मधुरेति ॥ मधुरं मनोहरं यथा तथोन्नते उच्चलिते ध्रुवौ यस्मिंस्तन्मधुरोन्न-

तभ्रु । 'गोस्त्रियोरुपसर्जनस्य' (१|२।४८) इति ह्रस्वत्वम् । १दृशोर्ललितं नयनचेष्टा


पाठा०-१ 'लसितं'.