पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३३
नवमः सर्गः ।

दितालिकुलं गुञ्जदलिपुञ्जम् । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८|४|१४) इति णत्वम् । वारिरहं श्रवणोत्पलं दयितावलोकेन विकसतो विस्तारं गच्छतो नयनस्य प्रसरेण प्रसारेण प्रणुन्नमिव । पूर्ववण्णत्वम् । निपपात । तथा संभ्रान्त- मित्यर्थः । अत्र संभ्रमहेतुकस्य कर्णोत्पलपातस्य नयनप्रसारहेतुकत्वमुत्प्रेक्ष्यते । एषा च हृष्टा ॥ ७१ ॥

 उपनेतुमुन्नतिमतेव दिवं कुचयोर्युगेन तरसा कलिताम् ।
 रभसोत्थितामुपगतः सहसा परिरभ्य कश्चन वधूमरुधत् ॥७२॥

 उपनेतुमिति ॥ सहसोपगतो हठादागतः कश्चन युवा अत एव रभसेनो- त्थितामत एवोन्नतिमता कुचयोर्युगेन करणेन दिवमाकाशमुपनेतुमिवोर्ध्वमुत्क्षे- प्सुमिवेति फलोत्प्रेक्षा उत्थाननिमित्तौन्नत्यगुणनिमित्ता । तरसा बलेनाकलितां व्याक्षिप्तां वधू प्रियां परिरभ्याश्लिष्यारुधत् रुद्धवानुपवेशितवान् । ऊर्ध्वोत्क्षेपान्नि- वारितवानिति चार्थः । रुधेर्लङि 'इरितो वा' (३।१।५७) इति विकल्पात् च्लेरङादेशः । एषा हृष्टा रोमाञ्चिताद्यनुभाववती च ॥ ७२ ॥

 अनुदेहमागतवतः प्रतिमां परिणायकस्य गुरुमुद्वहता ।
 मुकुरेण वेपथुभृतोऽतिभरात् कथमप्यपाति न वधूकरतः ॥७३॥

 अनुदेहमिति ॥ अनुदेहं देहस्य पश्चात् । 'अव्ययं विभक्ति-' (२|१|६) इत्यादिना पश्चादर्थेऽव्ययीभावः । आगतवतः परिणायकस्य परिणेतुः । वोढुरि- त्यर्थः । नयतेण्वुल् प्रत्ययः । 'उपसर्गादसमासेऽपि-' (१|४।१४) इति णत्वम् । गुरुं पूज्यां, भारवतीं च प्रतिमां प्रतिबिम्बमुद्वहता पश्चात्स्थितस्यापि तदाभिमुख्या- दिति भावः । मुकुरेण दर्पणेन कर्त्रा । 'दर्पणे मुकुरादशौं' इत्यमरः । वेपथुभृतो नवोढतया भयशृङ्गाराभ्यां कम्पमानात् । अति अतिमात्रो भरो यस्य तस्मादति- भरात् । प्रतिबिम्बगुरुमुकुरधारणादिति भावः । वध्वा नवोढायाः करतः पाणित- लात् । पञ्चम्यास्तसिल् । कथमपि नापाति न पतितम् । महता प्रयत्नेन धारित इत्यर्थः । भावे लुङ् । एषा च मुग्धा । अत्र वधूकरस्य भारासंबन्धेऽपि संबन्धो- क्तेरतिशयोक्तिः । गुरुमिति श्लेषोत्थापितेति संकरः ॥ ७३ ॥

 अवनम्य वक्षसि निमग्नकुचद्वितयेन गाढमुपगूढवता ।
 दयितेन तत्क्षणचलद्रशनाकलकिंकिणीरवमुदासि वधूः॥७४ ॥

 अवनम्येति ॥ अवनम्य गाढमुपगूढवता आश्लिष्टवता, अत एव वक्षसि निमग्नकुचद्वितयेन दयितेन तत्क्षणे चलन्नुद्गच्छन् रशनायाः कलकिंकिणीरवो यस्मिन्कर्मणि तद्यथा तथा वधूरङ्गना उदासि उत्क्षिप्ता । अस्यतेः कर्मणि लुङ् । एषा च हृष्टा रोमाञ्चाद्यनुभाववती च । स्वभावालंकारः ॥ ७४ ॥

 कररुद्धनीवि दयितोपगतौ गलितं त्वराविरहितासनया ।
 क्षणदृष्टहाटकशिलासदृशस्फुरदूरुभित्ति वसनं ववसे ॥ ७५ ॥