पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
शिशुपालवधे

अमृतमपीति भावः । विषतां विषवदहितत्वं समुपैति इत्यद इदं विषत्वं सत्यं ध्रुवम् । यद्यस्मादमृतस्रुतोऽपि । स्रवतेः क्विपि तुक् । हिमरश्मिरुचश्चन्द्रपादाः भवतो विरहाद्धेतोस्त्वया विना सेवनादित्यर्थः । अमूं त्वत्प्रियां दहन्ति । याः पूर्वं त्वया सह सेवनादाह्लादयन्निति भावः । एतेन विषयद्वेषरूपाऽरत्यवस्थोक्ता । अत्र विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ ६८ ॥

 उदितं प्रियां प्रति सहार्दमिति श्रदधीयत प्रियतमेन वचः।
 विदितेङ्गिते हि पुर एव जने सपदीरिताः खलु लगन्ति गिरः॥६९॥
         (कुलकम् ।)

 उदितमिति ॥ प्रियां प्रति प्रियामुद्दिश्य हृदयस्येदं हार्दं प्रेम । 'प्रेमा ना प्रियता हार्दं प्रेम स्नेहः' इत्यमरः । 'तस्येदम्' (१|३।१२०) इत्यण्प्रत्ययः । 'हृदयस्य हृल्लेखयदण्लासेषु' (६।३।५०) इति हृदयस्य हृदादेशः । सहार्दं सस्नेहमित्युदितम् । क्देः कर्मणि क्तः 'वचिस्वपि-' (६।१|१५) इत्यादिना संप्र. सारणम् । वचो दूतीवाक्यं प्रियतमेन श्रदधीयत विश्वसितम् । दधातेः कर्मणि लङ् । श्रदन्तरोरुपसर्गवचनात् श्रच्छब्दस्य प्राक्प्रयोगः । हि यस्मात्पुरः पूर्वमेव विदितेङ्गिते विदितपराभिप्राये जने । इङ्गितं हृद्गतो भावः । सजने समुदीरिता गिरः सपदि लगन्ति सज्जन्ति खलु । स्वयं प्रियाहृदयवेदित्वात् स्वबुद्धे: संवादेन दूतीकथितं प्रियाविरहदुःखं विशश्वासेत्यर्थः । अर्थान्तरन्यासः । एषा कलहान्त- रिता । अत एव मानाख्यो विप्रलम्भः शृङ्गारः । १'पूर्वानुरागमानाख्यप्रवासकरुणा- त्मना । २विप्रेलम्भाभिधानोऽयं शृङ्गारः स्याच्चतुर्विधः ॥' इति चतुर्थोऽयमुक्तः ॥६९॥

 दयिताहृतस्य युवभिर्मनसः परिमूढतामिव गतैः प्रथमम् ।
 उदिते ततः सपदि लब्धपदैः क्षणदाकरेऽनुपदिभिः प्रयये ॥७॥

 दयितेति ॥ प्रथमं चन्द्रोदयात्प्राक् परिमूढतां निजमनोपहर्तृमार्गानभिज्ञतां गतैः ततः पश्चात् क्षणदाकरे चन्द्रे उदिते सति सपदि लब्धपदैर्दृष्टचोरपदचिह्नः दयिताभिर्हृतस्याकृष्टस्यापहृतस्य च मनसोऽनुपदिभिरन्वेष्टभिः । अन्विष्यद्भि- रिवेत्यर्थः । अत एव गम्योत्प्रेक्षा प्रागवलम्बितधैर्यत्यागनिमित्ता। 'अनुपद्यन्वेष्टा' (५।२।९०) इति निपातः । 'अन्वेष्टानुपदी प्रोक्ता' इति वैजयन्ती । युवभिः प्रयये प्रयातम् । यातेर्भावे लिट् । अत्रोक्तपदान्वेषणोत्प्रेक्षया यूनां चोरग्राहिरू पकं गम्यत इत्यलंकारेणालंकारध्वनिः॥ ७० ॥

 अथ यूनां गृहप्राप्त्यनन्तरं वृत्तान्तं वर्णयति-

 निपपात संभ्रमभृतः श्रवणादसितभ्रुवः प्रणदितालिकुलम् ।
 दयितावलोकविकसन्नयनप्रसरप्रणुन्नमिव वारिरुहम् ॥ ७१॥

 निपपातेति ॥ संभ्रमभृतः प्रत्युत्थानसंभ्रमिण्याः असितभ्रुवोऽङ्गनायाः प्रण-


पाठा-१ 'माख्याय' २ 'विप्रलम्भश्चतुर्थोऽयमित्युक्तम् ॥ ६९ ॥'