पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३१
नवमः सर्गः ।

 तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिमुखेन मुहुः ।
 घनतां ध्रुवं नयति तेन भवद्गुणपूगपूरितमतृप्ततया ॥ ६४ ॥

 तवेति ॥ सा त्वत्प्रिया तव कथासु गुणकीर्तनेषु मुहुरङ्गुलिमुखेनाङ्गुल्यग्रेण श्रवणं श्रोत्रविवरं परिघट्टयति स्फालयतीति यत् । यदृच्छयेति शेषः । तेन परि- घट्टनेन भवद्गुणपूगपूरितं श्रवणं अतृप्ततया तावद्गुणग्रहणेनासंतुष्टतया घनतां नयति । बहुतण्डुलमानार्थं प्रस्थादिवद्भूयो गुणप्रवेशाय श्लेषयतीत्यर्थः । ध्रुवमि- त्युत्प्रेक्षायाम् । अत्र कण्डूविनोदनार्थं श्रोत्रघट्टने घनतानयनमुत्प्रेक्ष्यते ॥ ६४ ॥

 उपताप्यमानमलघूष्णिमभिः श्वसितैः सितेतरसरोजदृशः ।
 द्रवतां न नेतुमधरं क्षमते नवनागवल्लिदलरागरसः ॥६५॥

 उपेति ॥ अलघुरन्तःसंतापोपाधिक उष्णिमा उष्णत्वं येषां तैः श्वसितैर्नि:- श्वासैरुपताप्यमानं सितेतरसरोजदृशो नीलोत्पलाक्ष्या अधरं नवनागवल्लिदलानां ताम्बूलदलानां रागरसो रञ्जनद्रवो द्रवतामार्द्रतां नेतुं न क्षमते न शक्नोति । एतेन ज्वरावस्थोक्ता । अत्र द्रवत्वसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः ॥६५॥

 दधति स्फुटं रतिपतेरिषवः शिततां यदुत्पलपलाशदृशः।
 हृदयं निरन्तरबृहत्कठिनस्तनमण्डलावरणमप्यभिदन् ॥ ६६ ॥

 दधतीति ॥ रतिपतेरिषवः शिततां नैशित्यं दधति । स्फुटमित्युत्प्रेक्षायाम् । यद्यस्मान्निरन्तरं नीरन्ध्रं बृहत्कठिनं च यत् स्तनमण्डलं तदेवावरणं वर्म यस्य तत्त- दपि उत्पलपलाशदृश उत्पलदलाक्ष्याः हृदयमभिदन् भिन्दन्ति स्म । भिदेलङि 'इरितो वा' (३।१|५७) इति च्लेरङादेशः । सावरणमपि भिन्नमिति विरोधो- त्थापितेयं सरशरनैशित्योत्प्रेक्षा । तया च रन्ध्रान्वेषिणा कामेन निपीड्यमानाया. स्तस्यास्त्वद्विरहो जीवितसंशयमापादयतीति वस्तु द्योत्यते ॥ ६६ ॥

 कुसुमादपि मितदृशः सुतरां सुकुमारमङ्गमिति नापरथा ।
 अनिशं निजैरकरुणः करुणं कुसुमेषुरुत्तपति यद्विशिखैः ॥ ६७ ॥

 कुसुमादिति ॥ सितदृशः स्मेराक्ष्या अङ्गं कुसुमादपि सुतरां सुकुमारं कोम- लमितीदमपरथा अन्यथा न । किंतु सत्यमेवेत्यर्थः । यद्यस्मात् कुसुमेषुरकरुणो निष्कृपः सन् निजैर्विशिखैर्बाणैः । 'पृषत्कबाणविशिखाः' इत्यमरः । कुसुमैरेवे- त्यर्थः । करुणं दीनं यथा तथा अनिशं नित्यमुत्तपति । तापयतीत्यर्थः । तपतिरयं भौवादिकः सकर्मकः । कुसुमाधिकसौकुमार्याभावे कुसुमैः पीड्यत इति कुसुमा- धिकसौकुमार्यगुणोत्प्रेक्षा नापरथेति व्यञ्जकप्रयोगाद्वाच्या ॥ ६७ ॥

 विषतां निषेवितमपक्रियया समुपैति सर्वमिति सत्यमदः।
 अमृतसूतोऽपि विरहाद्भवतो यदमूं दहन्ति हिमरश्मिरुचः॥६८॥

 विषतामिति ॥ अपक्रियया विपरीतप्रयोगेण निषेवितमुपयुक्तं सर्वम् ।