पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३०
शिशुपालवधे

कुतो गर्व इति भावः । 'विदो लटो वा' (३।४|८३) इति णलादेशः । इति संप्रधार्य निश्चित्य वधूर्नायिका विहितागसे कृतापराधायापि रमणाय प्रेयसे । क्रियाग्रहणाच्चतुर्थी । सखीं विससर्ज प्रजिघाय । विरहासहिष्णुतयेति भावः । एषा कलहान्तरिता प्रौढा च ॥ ६० ॥

 ननु संदिशेति सुदृशोदितया त्रपया न किंचन किलाभिदधे ।
 निजमैक्षि मन्दमनिशं निशितैः क्रशितं शरीरमशरीरशरैः ॥६१॥

 नन्विति ॥ ननु संदिश संदेशं ब्रूहि इत्युदितया दूत्या कथितया सुदृशया नायि- कया का त्रपया हेतुना किंचन नाभिदधे किल नाभिहितं खलु । किंतु निशि- तैरशरीरशरैरनङ्गबाणैरनिशं क्रशितं कृशीकृतम् । कृशशब्दात् 'तत्करोति' (ग०) इति ण्यन्तात्कर्मणि क्तः । णाविष्टवद्भावे 'र ऋतो हलादेर्लघोः' (६।४।१६१) इत्युकारस्य रेफादेशः । निजं शरीरं मन्दमैक्षि ईक्षितम् । एषापि कलहान्तरिता मध्यमा च । त्रपया निजहृदयानभिधानान्निजशरीरनिरीक्षणेन स्वावस्थानिवेद- नाच्च तुल्यलज्जास्मरत्वावगमादिति । इयं च पञ्चमी कार्याख्या कामावस्था । 'दृङ्मनःसङ्गसंकल्पाज्जागरः कृशताऽरतिः। ह्रीत्यागोन्मादमूर्छान्ता इत्यनङ्गदशा दश ॥' इति ॥ ६१ ॥

 इत्थं नायिकाभिरुपदिष्टा दूत्यः किमकुर्वन्नित्यत आह-

 ब्रुवते स दूत्य उपसृत्य नरान्नरवत्प्रगल्भमतिगर्भगिरः।
 सुहृदर्थमीहितमजिह्मधियां प्रकृतेर्विराजति विरुद्धमपि ॥ ६२ ॥

 ब्रुवत इति ॥ प्रगल्भा सृष्टाः मतिगर्भाः प्रतिभासाराश्च गिरो यासां ता दूत्यो नरान् पुरुषानुपसृत्य नरवत् नरैः पुंभिस्तुल्यम् । 'तेन तुल्यं क्रिया चेद्वतिः' (५।१|११५) इति वतिप्रत्ययः । ब्रुवते स्म । न चैतावता वैजात्यं दूषणमित्य- र्थान्तरन्यासेनाह-सुहृदर्थमिति । तथा हि-अजिह्मधियामकुटिलबुद्धीनां संबन्धि सुहृदे सुहृदर्थम् । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता चेति वक्तव्यम्' (वा०)। ईहितं चेष्टितं प्रकृतेविरुद्धमपि स्वभावविपरीतमपि विराजति शोभते । तस्मान्न धार्ष्ट्ये दोष इत्यर्थः ॥ ६२ ॥

 अथ काचिद्दूती कंचित्प्रियं प्रति सप्तभिः प्रार्थयते-

 मम रूपकीर्तिमहरद्भुवि यस्तदनुप्रसक्तहृदयेयमिति ।
 त्वयि मत्सरादिव निरस्तदयः सुतरां क्षिणोति खलु तां मदनः॥६३।।

 ममेत्यादि ॥ यो भुवि मम रूपकीर्तिं सौन्दर्यं प्रथममहरत् इयं त्वत्प्रिया तदनुप्रविष्टहृदया तस्मिन्नासक्तचित्तेति अतो हेतोस्त्वयि मत्सरादिव मदनो निर- स्तदयो निष्कृपः सन् तां त्वत्प्रियां सुतरां क्षिणोति क्षपयति खलु । एतेन कार्या- वस्थोक्ता । अत्र साक्षात्प्रतिपक्षभूतनायकपीडासमर्थस्य मदनस्य तदीयनायिका- पीडनोक्त्या प्रत्यनीकालंकारः । स च त्वयि मत्सरादिवेति हेतूप्रेक्षोत्थापित इति संकरः । 'बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तदीयतिरस्कारः प्रत्यनीकं

तदुच्यते ॥' इति लक्षणात् ॥ ६३ ॥