पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२९
नवमः सर्गः ।

 दयिताय मानपरयाऽपरया त्वरितं ययावगदितापि सखी ।
 किमु चोदिताः प्रियहितार्थकृतः कृतिनो भवन्ति सुहृदः सुहृदां ५७

 दयितायेति ॥ मानपरया अभिमानवत्या अत एवापरया नायिकया अग- दिता दयितमानयेत्यनुक्ता सखी दयिताय दयितमानेतुम् । 'क्रियार्थोपपदस्य च कर्मणि स्थानिनः' (२।३।१४) इति चतुर्थी । त्वरितं शीघ्रं ययौ । अन्यथा मरणशङ्केति भावः । तथा हि-सुष्टु शोभनं हृदयं येषां ते सुहृदो मित्राणि । 'सुहृद्दुर्हृदौ मित्रामित्रयोः' (५।४।१५०) इति निपातः । चोदिताः प्रेरिताः सन्तः सुहृदां प्रियो हृद्यः हितः श्रेयस्करश्च योऽर्थस्तं कुर्वन्तीति प्रियहितार्थ- कृतः । कृतमेषामस्तीति कृतिनः कृतकृत्या भवन्ति किमु । किंतु चोदनां विनैवेति भावः । अर्थान्तरन्यासः । नायिका च पूर्ववत् ॥ ५७ ॥

 अथ काचित्कलहान्तरिता कान्तं प्रति त्रिभिर्दूतीं संदिशति-

 प्रतिभिद्य कान्तमपराधकृतं यदि तावदस्य पुनरेव मया ।
 क्रियतेऽनुवृत्तिरुचितैव ततः कलयेदमानमनसं सखि माम् ॥५८॥

 प्रतिभिद्येत्यादि ॥ अपराधकृतमागस्कारिणं कान्तं प्रतिभिद्य निराकृत्य पुन- मयैवास्यानुवृत्तिरनुसरणं क्रियते यदि तावदुचितैव । पतिव्रतानां प्राणेश्वरचित्ता- नुवृत्तेधर्मत्वादिति भावः । किंतु हे सखि, ततोऽनुवृत्तेर्माममानमनसमभिमान- हीनचित्तां कलयेन्मन्येत ॥ ५८ ॥

 तर्ह्यलाघवाय विगृह्यैव स्थीयतां तत्राह-

 अवधीर्य धैर्यकलिता दयितं विदधे विरोधमथ तेन सह ।
 तव गोप्यते किमिव कर्तुमिदं न सहामि साहसमसाहसिकी ॥५९॥

 अवधीर्येति ॥ धैर्यकलिता कलितधैर्या सती । 'वाहिताग्न्यादिषु' ( २।२। ३७) इति निष्ठायाः परनिपातः । दयितमवधीर्य तिरस्कृत्य तेन सह विरोधं विदधे करोमीति चेत् । दधातेः कर्तरि लट् । हे सखि, तव किमिव गोप्यते निगृह्यते । न किंचिदित्यर्थः । किंतु कथ्यत एवेति कथयति । सहसा बलेन वर्तत इति साहसिकी । 'ओजःसहोऽम्भसा वर्तते' (४।४।२७) इति ठक् । सा न भवतीत्यसाहसिकी । अहमिति शेषः । इदं साहसं विरोधं विरोधाचरणरूपं साह- सकृत्यं कर्तुम् । 'शकधृष-' (३।४|६५) इत्यादिना तुमुन् । सहत इति सहा समर्था । पचाद्यच् । नास्मि । अत्रासाहसिकत्वस्य विशेषणगत्या साहसासहनहेतु- त्वोक्तेः पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ ५९ ॥

 तर्हि किमत्र कार्यमत आह-

 तदुपेत्य मा म तमुपालभथाः किल दोषमस्य न हि विद्म वयम् ।
 इति संप्रधार्य रमणाय वधूर्विहितागसेऽपि विससर्ज सखीम् ॥६॥

 तदिति ॥ तत्तस्मात्तं वल्लभमुपेत्य मा सोपालभथाः नोपालभस्व । तद्दोषं न गणयेरित्यर्थः । 'स्मोत्तरे लङ् च' (३।३।१७६) इत्युपाङ्पूर्वाल्लभेर्लङ् 'न माङयोगे' (६।४।७४) इत्यट्प्रतिषेधः । ननु सापराधः कथं नोपालभ्यस्तत्राह-

वयमस्य दोषमपराधं न विद्म किल । अजानाना इव तिष्ठाम इत्यर्थः । कार्यार्थिनः


शिशु० २०