पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२८
शिशुपालवधे

चेत्यर्थः । मुहुर्ददृशुः । औपम्यपरीक्षार्थमिति भावः । अत्रान्यश्रियोऽन्यत्रासंभवा- च्चन्द्रे तत्सदृशीमिति सादृश्याक्षेपादसंभवद्वस्तुसंबन्धा निदर्शना । तथा चन्द्र दर्पणयोर्द्युसवयसोश्च यथासंख्यमन्वयाद्यथासंख्यालंकारश्च । तदुभयापेक्षया चन्द्रदर्शनयोर्मुखश्रीदर्शनस्थानत्वेन प्रस्तुतयोरेवौपम्यस्य गम्यत्वात्तुल्ययोगितेति संकरः ॥ ५३॥

 अधिजानु बाहुमुपधाय नमत्करपल्लवार्पितकपोलतलम् ।
 उदकण्ठि कण्ठपरिवर्तिकलस्वरशून्यगानपरयापरया ॥ ५४ ॥

 अधिजान्विति ॥ नमति कपोलार्पणाय प्रह्वीभवति करपल्लवे' अर्पितं निहितं कपोलतलं गण्डस्थलं यस्य तं बाहुमधिजानु जानुनि । विभक्त्यर्थेऽव्ययीभावः । उपधाय निधाय । कूपरेण जानुमवष्टभ्येत्यर्थः । कण्ठे परिवर्ततः इति कण्ठपरि- वर्ति । न तु मुखोच्चारितमित्यर्थः । कलमव्यक्तमधुर स्वरशून्यं तारध्वनिहीनम् , षड्जादिस्वराभिव्यक्तिहीनं वा यद्गानं तत्परया तदासक्तया । मन्दकण्ठेनैव गाय- न्त्येत्यर्थः । कालक्षेपार्थमिति भावः । अयं चोत्कण्ठानुभावः । अपरया स्त्रिया उदकण्ठि उत्कण्ठितम् । प्रियसंगमायोत्सुकया स्थितमित्यर्थः । भावे लुङि चिणो लुक् । अत्र कालक्षेपासहिष्णुत्वलक्षणमौत्सुक्यं संचारि तन्निबन्धनात्प्रेयोलंकारः । परयापरयेति यमकविशेषसंसृष्टिः । नायिका विरहोत्कण्ठिता । 'चिरं पत्युरनालोके विरहोत्कण्ठितोन्मनाः' इति लक्षणात् ॥ ५४ ॥

 प्रणयप्रकाशनविदो मधुराः सुतरामभीष्टजनचित्तहृतः ।
 प्रजिघाय कान्तमनु मुग्धतरस्तरुणीजनो दृश इवाथ सखीः॥५५॥

 प्रणयेति ॥ अथ प्रसाधनानन्तरं मुग्धतरोऽत्यन्तकाममोहितस्तरुणीजनः प्रणयप्रकाशनविदः । अनुरागव्यञ्जनचतुरा इत्यर्थः । मधुरा मधुरभाषिणीः, अन्यत्र रम्याकृतीः सुतरामभीष्टजनस्य चित्तहृतो मनोहारिणीः सखी: दृश इव कान्तमनु प्रेयोजनं प्रति प्रजिघाय प्रेषितवान् । हिनोतेर्लिट् । इवेन सह समा- सवचनाद्दृश इवेत्युपमासमासः । तया सखीनामासत्त्यन्तरङ्गत्वकार्यदर्शित्वादि- व्यञ्जनादलंकारेण वस्तुध्वनिः ॥ ५५ ॥

 तथा काचिन्नायिका दूतीं वाचिकमनुशास्ति-

 न च मेऽवगच्छति यथा लघुतां करुणां यथा च कुरुते स मयि ।
 निपुणं तथैनमुपगम्य वदेरभिदूति काचिदिति संदिदिशे ॥५६॥

 न चेति ॥ स मे दयितो यथा मयि करुणां कुरुते यथा लघुतामल्पतां च नावगच्छति न मन्यते । एनं दयितमुपगम्य प्राप्य तथा तेन प्रकारेण निपुणं वदेः । विध्यर्थे प्रार्थने वा लिङ् । इतीत्थं काचिन्नायिका अभिदूति दूतीमभि । 'लक्षणेनाभिप्रती-' (२।१।१४) इत्यव्ययीभावे नपुंसकह्रस्वत्वम् । संदिदिशे संदिष्टवती । कर्तरि लिट् । स्वरितेत्त्वादात्मनेपदम् । नायिका तु कलहान्तरिता ।

कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता' इति लक्षणात् ॥ ५६ ॥