पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२७
नवमः सर्गः ।

 ध्रुवमिति ॥ मदनेषवः कामशराः महति कठिने कुचतटे प्रतिहतिं प्रतिघा- तमागताः प्राप्ता ध्रुवम् । यद्यस्माद्गरिम्णा निजभारेण ग्लपितं कार्शतमवलग्नं मध्यं येन तदिदं कुचतटमितराङ्गेन तुल्यमितराङ्गवत् । 'तेन तुल्यम्-' (५।१।११५) इति वतिप्रत्ययः । तनुतां कार्यं नागमन्नाभजत् । 'पुषादि' (३।१|५५)सूत्रेण च्लेरङा- देशः । तदा मदनेषुपातात् कुचातिरिक्तमङ्गनानामङ्गं कृशमासीदित्यर्थः ॥ ४९ ॥

 न मनोरमास्वपि विशेषविदां निरचेष्ट योग्यमिदमेतदिति ।
 गृहमेष्यति प्रियतमे सुदृशां वसनाङ्गरागसुमन:सु मनः ॥५०॥

 न मनोरमास्विति ॥ प्रियतमे गृहमेष्यति आगमिष्यति सति विशेषवि- दामपि सुदृशां सम्यग्दर्शनीयानां स्त्रीणां मनः कर्तृ मनोरमास्वपि वसनाङ्गराग- सुमनःसु वस्त्रगन्धमाल्येषु इदमेतदिति इदं पुरोवर्ति वस्त्वेतदिति वसनमिति, अनुलेपनमिति, सुमनस इति, विशेषाकारेण तथा योग्यमस्माकं धारणाहमिति च न निरचेष्ट न निरधारयत् । प्रियागमनहर्षातिरेकादितिकर्तव्यतामूढमभूदि- त्यर्थः । चिनोतेर्लुङि तङि च्लेः सिच् 'सार्वधातुकार्धधातुकयोः' (७।३।८४) इति गुणः । हर्षोऽत्र संचारिभावः । निश्चयसंबन्धेऽप्यसंबन्धोक्तेरतिशयोक्तिः सुमनःसु मन इति यमकविशेषश्चेति संसृष्टिः ॥ ५० ॥

 वपुरन्वलिप्त परिरम्भसुखव्यवधानभीरुकतया न वधूः ।
 क्षममय बाढमिदमेव हि यत्प्रियसंगमेष्वनवलेपमदः ॥ ५१ ॥

 वपुरिति ॥ वधूः स्त्री परिरम्भसुखव्यवधानभीरुकतया आलिङ्गनसुखवि- च्छेदभीरुत्वेन । 'क्रुकन्नपि वक्तव्यः' (वा०) इति क्रुकन्प्रत्ययः । वपुर्नान्वलिप्त नानुलिप्तवती । अङ्गरागमात्रव्यवधानमपि न सहत इत्यर्थः । लिम्पतेः कर्तरि लुङि तङ् । तथा हि- अदो वपुः प्रियसंगमेषु अनवलेपमचन्दनमगर्वं चेति यत् । 'अवलेपस्तु गर्वे स्याल्लेपने भूषणेऽपि च' इति विश्वः । इदमनवलेपनत्वमेवास्य वपुषो बाढं भृशं क्षमं युक्तम् । श्लेषानुप्राणितोऽयमर्थान्तरन्यासः ॥ ५१ ॥

 निजपाणिपल्लवतलस्खलनादभिनासिकाविवरमुत्पतितैः ।
 अपरा परीक्ष्य शनकैर्मुमुदे मुखवासमास्यकमलश्वसनैः ॥ ५२ ॥

 निजेति ॥ अपरा स्त्री निजपाणिपल्लवतलस्य स्खलनादभिघातादभिनासि- काविवरं नासारन्ध्र प्रति उत्पतितैरास्यकमलस्य श्वसनैर्मुखमारुतर्मुखवासं मुख- वासनां शनकैः परीक्ष्य मुमुदे । इयं वासकसज्जिका नायिका ॥ ५२ ॥

 विधृते दिवा सवयसा च पुरः परिपूर्णमण्डलविकाशभृति ।
 हिमधाग्नि दर्पणतले च मुहुः स्वमुखश्रियं मृगदृशो ददृशुः ॥५३॥

 विधृत इति ॥ दिवा आकाशेन सवयसा वयस्यया च पुरोऽग्रे विधृते विधा- रिते परिपूर्णमण्डलविकाशं बिम्बशोभां बिभर्तीति तद्भृत तस्मिन् हिमधानि चन्द्रे

दर्पणतले च मृगदृशः स्त्रियः स्वमुखश्रियम् । पूर्वत्रोपमानभूतामुत्तरत्रोपमेयभूतां