पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२६
शिशुपालवधे

वाचिना तरुशब्देन पुनरुक्तिः । महति जघनस्थल्येव परिसरः प्रदेशस्तस्मिन् रशनाकलापक एव गुणस्तेन मकरध्वजो मदनः स एव द्विरदस्तमाकलयदबध्नात् । रशनाबन्धेन जघनमतीव मदनोद्दीपकमासीदित्यर्थः । समस्तवस्तुवर्ति सावय- वरूपकम् ॥४५॥

 अधरेष्वलक्तकरसः सुदृशां विशदं कपोलभुवि लोध्ररजः ।
 नवमञ्जनं नयनपङ्कजयोर्बिभिदे न शङ्खनिहितात्पयसः ॥४६॥

 अधरेष्विति ॥ सुदृशामधरेष्वोष्ठेषु अलक्तकरसो लाक्षाद्रवः तथा कपोल- भुवि गण्डस्थले विशदं शुभं लोध्ररजः तथा नयनपङ्कजयोर्नवमञ्जनं च शङ्खनि- हितात् पयसः क्षीरान्न बिभिदे भिन्नं नाभूत् । कर्मकर्तरि लिट् । अधरादिनिहितं लाक्षारागादिकं शङ्खनिहितक्षीरवत् सावर्ण्यादाश्रयतोऽभेदेन दुर्ग्रहमभूदित्यर्थः । अत्र यदधरालक्तकरसादिकं तच्छङ्खनिहितं क्षीरमित्येकवाक्यतया वाक्यार्थे वाक्या- र्थसमारोपादसंभवद्वस्तुसंबन्धो वाक्यार्थनिष्ठो निदर्शनालंकारः । तेनाधरालक्तका- दीनां गुणत एकत्वरूपः सामान्यालंकारो गम्यते । 'सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता' इति लक्षणात् ॥ ४६॥

 स्फुरदुज्ज्वलाधरदलैर्विलसद्दशनांशुकेशरभरैः परितः।
 धृतमुग्धगण्डफलकैर्विबभुर्विकसद्भिरास्यकमलैः प्रमदाः ॥४७॥

 स्फुरदिति ॥ प्रमदाः स्त्रियः स्फुरन्तश्चलन्तः उज्वलाश्चामला अधरा ओष्ठा एव दलानि पत्राणि येषां तैः परितो विलसन्तो दशनांशवो दन्तकान्तय एव केशरभराः किंजल्कपुञ्जा येषां तैः । धृतानि मुग्धानि गण्डा एव फलकानि कर्णिका येषां तैर्विकसद्भिरास्यकमलैर्विबभुः । अत्रास्यकमलैरिति रूपणात् प्रमदा एव सरस्य इति सिद्धेरेकदेशविवर्ति सावयवरूपकम् । 'आस्यकुमुदैः' इति पाठे कुमुदस्य मुखोपमानकत्वं कविसमयविरुद्धं ज्ञेयम् ॥ ४७ ॥

 भजते विदेशमधिकेन जितस्तदनुप्रवेशमथवा कुशलः ।
 मुखमिन्दुरुज्ज्वलकपोलमतः प्रतिमाच्छलेन सुदृशामविशत् ॥४८॥

 भजत इति ॥ अधिकेन प्रबलेन जितो विदेशं देशान्तरं भजते, अथवा कुशलः कार्यचतुरः तदनुप्रवेशं भजते । तमेव शरणतया प्रविश्य जीवतीत्यर्थः । अतो हेतोरिन्दुरुज्वलौ कपोलौ यस्य तदिति मुखस्य बिम्बग्रहणयोग्यतोक्तेः पदार्थहेतुकं काव्यलिङ्गम् । सुदृशां मुखं प्रतिमाच्छलेन प्रतिबिम्बव्याजेनाविशत् प्रविष्टः । साक्षाच्चन्द्र एवायं न प्रतिमाचन्द्र इति छलशब्दात्प्रतीतेः छलशब्देनासत्यत्वप्रति- पादनरूपोऽपह्नवालंकारः । पूर्वोक्तकाव्यलिङ्गसापेक्ष इति संकरः । तेन कपोलयोर्लो- कोत्तरं लावण्यं दर्पणौपम्यं च व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ ४८ ॥

 ध्रुवमागताः प्रतिहतिं कठिने मदनेषवः कुचतटे महति ।
 इतराङ्गवन्न यदिदं गरिमग्लपितावलग्नमगमत्तनुताम् ॥ ४९ ॥

-