पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२५
नवमः सर्गः ।

मलभत । उभयत्र प्रवेशं लब्धवानित्यर्थः । अत्र चन्द्रोदये कुमुदकामिनीहृदययो- र्द्वयोरपि प्रकृतयोः शिलीमुखप्रवेशलक्षणैकधर्मयोगादौपम्यात्तुल्ययोगिता एकधर्मत्वं चात्र शिलीमुखेति श्लिष्टपदोपात्तयोरलिबाणयोरेकत्वाध्यवसायमूलातिशयोक्ति- प्रसादादिति संकरः ॥ ४१ ॥

 ककुभां मुखानि सहसोज्वलयन् दधदाकुलत्वमधिकं रतये ।
 अदिदीपदिन्दुरपरो दहनः कुसुमेषुमत्रिनयनप्रभवः ॥४२॥

 ककुभामिति ॥ ककुभां दिशां मुखानि सहसा झटित्युज्वलयन्नुद्भासयन् रतये सुरताय अधिकमाकुलत्वमौत्सुक्यं दधत् । यूनामिति शेषः । अन्यत्र रतये काम- देव्यै आकुलत्वं भयविह्वलत्वं दधत् । अत्रेरत्रिमुनेर्नयनप्रभवः । 'अत्रिनेत्रसमु- द्भवः' इति पुराणात् । त्रिनयनप्रभवो न भवतीत्यत्रिनयनप्रभवः । अपरस्त्रिनयन- प्रभवादन्यो दहनोऽग्निरिन्दुः । कुसुमेधू काममदिदीपद्दीपयति स्म । दीप्यते? चङि 'भ्राज-' (७।४।३) इत्यादिना विकल्पानोपधाहस्वः । अत्र प्रकृते कुसुमे- षोर्दीपनं नाम प्रवर्धनं तस्य तत्र प्रतीयमानेन प्रज्वलनेनाभेदाध्यवसायात्तन्निमि- त्तमिन्दोर्दिङ्मुखोद्भासनादिधर्मसंबन्धादपरोऽयं दहन इत्यपरशब्दप्रयोगसामर्थ्या. द्दहनत्वोत्प्रेक्षा, न रूपकमिति रहस्यम् । चन्द्रोदयात्कामो ववृधे इति तात्पर्यम् ॥४२॥

 एवं चन्द्रोदयाख्यमुद्दीपनविभावनमुक्त्वा तत्फलमाह-

 इति निश्चितप्रियतमागतयः सितदीधितावुदयवत्यबलाः ।
 प्रतिकर्म कर्तुमुपचक्रमिरे समये हि सर्वमुपकारि कृतम् ॥ ४३ ॥

 इतीति ॥ इत्येवं सितदीधितावुदयवति अबलाः स्त्रियो निश्चिता प्रियतमाना- मागतिरागमनं याभिस्ताः सत्यः प्रतिकर्म प्रसाधनं कर्तुमुपचक्रमिरे । 'प्रतिकर्म प्रसाधनम्' इत्यमरः । चन्द्रोदयात् प्रियागमनं निश्चित्य अलंकर्तुं प्रक्रान्ता इत्यर्थः । तथा हि-समये कार्यकाले कृतमनुष्ठितं सर्वं कर्म उपकार्युपकारकं भवति । अन्यथा विफलमेवेति भावः । अतो निश्चित्य प्रवृत्तिरासां युक्तेत्यर्थान्तरन्यासः ॥ ४३ ॥

 अथ प्रसाधनमेव प्रपञ्चयति-

 सममेकमेव दधतुः सुतनोरुरु हारभूषणमुरोजतटौ ।
 घटते हि संहततया जनितामिदमेव निर्विवरतां दधतोः ॥४४॥

 सममिति ॥ सुतनोः स्त्रिया उरोजतटौ उरु श्लाघ्यमेकमेव भूषण सममवैषम्येण दधतुः । संहततया संश्लिष्टतया, ऐकमत्येन च जनितां निर्विवरतां निरन्तरालतां, नीरन्ध्रत्वं च दधतोरिदं समभागित्वमेव घटते । अन्तर्भेदान्तराया हि विषयिणां विषयोपभोगाः कुचयोस्तदभावात्समशोभार्थं हारधारणं युक्तमिति भावः ॥ १४॥

 कदलीप्रकाण्डरुचिरोरुतरौ जघनस्थलीपरिसरे महति ।
 रशनाकलापकगुणेन वधूर्मकरध्वजद्विरदमाकलयत् ॥४५॥

 कदलीति ॥ वधूः कदलीप्रकाण्डरुचिरे रम्भास्तम्भसुन्दरे । उरुरेव तरुर्बन्ध-

नवृक्षो यस्मिन् । अत्र कदलीकाण्डस्य सौन्दर्यमानोपमानत्वान्न बन्धनयोग्यवृक्ष-