पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२४
शिशुपालवधे

निकरोऽमलात्मसु निर्मलमूर्तिषु तरुणीनां ये कपोलाः फलकानीव तेष्वभितो मुहुः प्रतिफलन् संक्रामन् सान्द्रतरं प्रचुरतरं विससार । दर्पणसंक्रमणादिवेति भावः । अत्रेन्दुरुचां कपोलासंक्रमेऽपि संक्रमोक्तेरसंबन्धे संबन्धोक्तिरूपातिशयोक्तिः ॥३७॥

 उपगूढवेलमलघूर्मिभुजैः सरितामचुक्षुभदधीशमपि ।
 रजनीकरः किमिव चित्रमदो यदुरागिणां गणमनङ्गलघुम् ॥३८॥

 उपगूढेति ॥ रजनीकरश्चन्द्रः अलघुभिरूर्मिभिरेव भुजैरुपगूढा वेला येन तम् । सावष्टम्भमिति भावः । सरितामधीशं समुद्रमपि । स्वभावादक्षोभ्यम- पीति भावः । अचुक्षुभत् क्षोभयति स्म । क्षुभ्यतेर्ण्य॑न्ताल्लुङ् 'णौ चड्युपधाया हस्वः' (७|४|१) । अनङ्गेन लघु गतसारं यदव एव रागिणस्तेषां गणमचुक्षुभ- दित्यदः किमिव चित्रम् । न किंचिदित्यर्थः । अत्राक्षोभ्यमब्धिं क्षोभयतश्चन्द्रस्य दण्डापूपिकन्यायादन्यक्षोभकत्वोक्तेरापत्त्तिरलंकारः ॥ ३८॥

 भवनोदरेषु परिमन्दतया शयितोऽलसः स्फटिकयष्टिरुचः ।
 अवलम्ब्य जालकमुखोपगतानुदतिष्ठदिन्दुकिरणान्मदनः ॥३९॥

 भवनेति ॥ परिमन्दतया एकाकित्वादसमर्थतया भवनोदरेषु गृहाभ्यन्त- रेषु शयितः सुप्तोऽत एवालसो मदनो जालकमुखोपगतान् गवाक्षविवरप्रविष्टान् अत एव स्फटिकयष्टीनां रुगिव रुक् शोभा येषां तान् स्फटिकदण्डसंनिभानिन्दु- किरणानवलम्ब्यावष्टभ्योदतिष्ठदुत्थितः । अत्रोद्बोधोत्थानयोरभेदविवक्षया 'उदो. ऽनूर्ध्वकर्मणि' (१।३।२४) इति परस्मैपदसिद्धिः । एतत्पदे चाभेदाध्यवसाय- मूलातिशयोक्त्या स्फटिकयष्टिरुच इत्युपमया च अवलम्ब्येत्यत्रावलम्ब्येवेत्युत्था- नस्यावलम्बनहेतुकत्वोत्प्रेक्षा प्रत्याय्यत इत्येतासां संकरः ॥ ३९ ॥

 अविभावितेषुविषयः प्रथमं मदनोऽपि नूनमभवत्तमसा ।
 उदिते दिशः प्रकटयत्यमुना यदघर्मधाम्नि धनुराचकृषे ॥४०॥

 अविभावितेष्विति ॥ मदनोऽपि प्रथमं चन्द्रोदयात्प्राक् तमसा अविभा- वितोऽलक्षितः इषुविषयो बाणलक्ष्यं येन सोऽभवत् । नूनमित्युप्रेक्षा । यद्य- स्मादघर्मधाम्नि शीतकरे उदिते दिशः प्रकटयति सति अमुना मदनेन धनुरा- चकृषे आकृष्टम् । चन्द्र एव महानुद्दीपको मदनस्याभूदिति भावः ॥ ४० ॥

 युगपद्विकासमुदयाद्गमिते शशिनः शिलीमुखगणोऽलभत ।
 द्रुतमेत्य पुष्पधनुषो धनुष: कुमुदेऽङ्गनामनसि चावसरम् ॥४१॥

 युगपदिति ॥ पुष्पधनुः पुष्पधन्वा । 'वा संज्ञायाम्' (५।४।१३३) इति विकल्पान्नानङादेशः । तस्य धनुः पुष्पचापं, पुष्पान्तरं च तस्साच्चलितो निःसृतः शिली शल्यं मुखं येषां ते शिलीमुखा बाणाः, अलयश्च । 'अलिबाणौ शिलीमुखौ' इत्यमरः । तेषां गणः शशिन उदयाद्विकासमौत्सुक्यं, उन्मीलनं च युगपदेकदा

गमिते प्रापिते अङ्गानानां सुदृशां मनसि हृदये कुमुदे चावसरमवकाशमाश्वास-