पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२३
नवमः सर्गः ।

 दिवसं भृशोष्णरुचिपादहतां रुदतीमिवानवरतालिरुतैः ।
 मुहुरामृशन् मृगधरोऽग्रकरैरुदशिश्वसत् कुमुदिनीवनिताम् ॥३४॥

 दिवसमिति ॥ मृगधरश्चन्द्रो दिवसम् । दिवस इत्यर्थः । कालाध्वनोरत्यन्त- संयोगे द्वितीया । भृशमुष्णरुचेरुष्णांशोः पादेन करेण, अङ्घ्रिणा च । 'पादा रश्म्यङ्घ्रितुर्यांशाः' इत्यमरः । हतां ताडिताम् । अत एवानवरतैरविच्छिन्नैरलिरुतै रुदतीं क्रन्दन्तीमिव स्थितां कुमुदिन्येव वनिता ताम् । अग्राणि च ते कराश्च इत्य- भेदेन समास इति वामनः । तैरग्रकरैरग्रांशुभिरग्रहस्तैः मुहुरामृशन् स्पृशन् उदशि- श्वसदुच्छ्वासयति स्म । परावमृष्टानां पतिभिराश्वासनीयत्वादिति भावः । श्वस- धातोः ‘णौ चड्युपधाया ह्रस्वः' (७|४।१)। अत्र पाद एव पादस्तेन हतामिति हननसाधितश्लिष्टरूपकोत्थापितेयमलिरुतैरिति व्यधिकरणपरिणामगर्भा रोदनोत्प्रे- क्षेति विजातीयसंकरः । तथा करैरेव करैः कुमुदिनीवनितेति श्लिष्टाश्लिष्टरूपणान्मृ- गधरे वल्लभत्वप्रतीतेरेकदेशवर्ति रूपकं तत्सापेक्षेयमुदशिश्वसदिति गम्योत्प्रेक्षेत्यपरो विजातीयसंकरः । रोदनोत्प्रेक्षासापेक्षेयमुच्छ्वासनोत्प्रेक्षेति सजातीयसंकरोऽपि ॥

 प्रतिकामिनीति ददृशुश्चकिताः सरजन्मघर्मपयसोपचिताम् ।
 सुदृशोऽभिभर्तृ शशिरश्मिगलज्जलबिन्दुमिन्दुमणिदारुवधूम् ॥३५॥

 प्रतीति ॥ सुदृशोऽङ्गनाः अभिभर्तृ भर्तारमभि । 'लक्षणेनाभिप्रती आभि- मुख्ये' (२।१।१४) इत्यव्ययीभावः । शशिरश्मिभिर्गलन्तः स्रवन्तो जलबिन्दवो यस्यास्ताम्, इन्दुमणिश्चन्द्रकान्तशिला सैव दारु तस्य वधूस्तन्मयी वधूः स्त्रीप्रतिमा तां स्मराज्जन्म यस्य तेन स्सरजन्मना घर्मपयसा स्वेदाम्बुनोपचितां व्याप्ताम् । स्विन्नगात्रामित्यर्थः । प्रतिकूला कामिनी प्रतिकामिनी । सपनीति भ्रान्त्येति शेषः । चकिता भीता ददृशुः । अत्र चन्द्रशिलापुत्रिकायां सादृश्यनिबन्धनया प्रतिकामिनीभ्रान्त्या भ्रान्तिमदलंकारः॥

 अमृतद्रवैर्विदधदब्जदृजशामपमार्गमोषधिपतिः स्म करैः ।
 परितो विसर्पि परितापि भृशं वपुषोऽवतारयति मानविषम् ॥३६॥

 अमृतेति ॥ ओषधिपतिश्चन्द्र एवौषधिपतिर्वैद्य इति श्लिष्टरूपकम् । अमृ- तमेवामृतमौषधविशेषः । तेन द्रवैरार्द्रै: करैः किरणैरेव करैर्हस्तैरब्जदृशामपमा- र्गमङ्गपरिमार्जनं विदधत् कुर्वन् परितो विसर्पि सर्वव्यापि भृशं परितापि संता- पकारि मानः कोप एव विषं तत् वपुषः शरीरादवतारयति स्म अवारोपित- वान् । अत्र सावयवरूपकेणौषधलिप्तजाङ्गुलिकहस्तसंस्पर्शाद्विषमिव निशाकर- करस्पर्शादेवाङ्गनानां वपुषि रोषो न स्पृष्ट इत्युपमा व्यज्यते ॥

 अमलात्मसु प्रतिफलन्नभितस्तरुणीकपोलफलकेषु मुहुः ।
 विससार सान्द्रतरमिन्दुरुचामधिकावभासितदिशां निकरः ॥३७॥

 अमलेति ॥ अधिकमवभासिताः प्रकाशिता दिशो याभिस्तासामिन्दुरुचां