पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२२
शिशुपालवधे

 उदमज्जीति ॥ अपनिद्रपाण्डुरसरोजरुचा विकसितसितपुण्डरीकश्रिया तुहि- नद्युतिना चन्द्रेण प्रथमं हरेः पूर्वमेव प्रबुद्धायाः । अन्यथा तन्मुखं न दृश्यतेति भावः । नदराजसुतायाः सिन्धुकन्यायाः श्रियो वदनेन्दुनेवेत्युत्प्रेक्षा । कैटभ- जितो हरेः शयनात् । समुद्रादित्यर्थः । उक्तोत्प्रेक्षासंभावनार्थमित्थं निर्देशः । उदमजि उन्मग्नम् । उत्थितमित्यर्थः ॥ ३०॥

 अथ लक्ष्मणानुगतकान्तवपुर्जलधिं विलङ्घ्य शशिदाशरथिः ।
 परिवारितः परित ऋक्षगणैस्तिमिरौघराक्षसकुलं बिभिदे ॥ ३१ ॥

 अथेति ॥ अथोदयानन्तरं लक्ष्मणा लाञ्छनेन, लक्ष्मणेन सौमित्रिणा चानु- गतमनुसृतं कान्तं वपुर्यस्य सः । लक्ष्मणानुगतकान्तवपुरिति शब्दश्लेषः । वस्तुतः शब्दभेदेनार्थद्वयाभावेऽपि जतुकाष्ठवदेकशब्दप्रतीतेः । परितः समन्ता- दृक्षगणैर्नक्षत्रगणैः, जाम्बवदादिभल्लूकसमूहैश्च इत्यर्थश्लेषः । एकनालावलम्बिफलद- यवदखण्डैकशब्दादर्थद्वयप्रतीतेः । 'नक्षत्रमृक्षं भं तारा' इति । 'ऋक्षाच्छभल्ल- भल्लूका' इति चामरः । परिवारितः शश्येव दाशरथिर्दशरथपुत्रो रामः । अत इञ् । जलधिं विलय तिमिरौघ एव राक्षसकुलं तत् बिभिदे विभेदयामास । भिदेः कर्तरि लिट् । श्लेषसंकीर्णसमस्तवस्तुवर्तिसावयवरूपकालंकारः ॥ ३१ ॥

 उपजीवति स सततं दधतः परिमुग्धतां वणिगिवोडुपतेः।
 घनवीथिवीथिमवतीर्णवतो निधिरम्भसामुपचयाय कलाः ॥३२॥

 उपजीवतीति ॥ अम्भसां निधिः समुद्रो वणिगिव सततं परिमुग्धतां सौन्दर्यम् , अन्यत्र मौढ्यम् । व्यवहारानभिज्ञतामिति यावत् । 'मुग्धः सुन्दरमू- ढयोः' इति विश्वः । दधतो दधानस्य घनानां वीथिर्घनवीथिरन्तरिक्षं सा वीथिः पण्यवीथिरिवेत्युपमितसमासः । तामवतीर्णवतः प्रविष्टवत उडुपतेर्नक्षत्रनाथस्य कस्यचिद्धनिकवणिजश्व कलाः षोडशांशान्मूलधनवृद्धीश्च । 'कला स्यान्मूलरैवृद्धौ शिल्पादावंशमात्रके । षोडशांशेऽपि चन्द्रस्य' इति विश्वः । उपचयाय स्वाम्बु- वृद्धये समृद्धये चोपजीवति स्म सेवते स्म । अन्यत्र लभते स्मेत्यर्थः । यथा क्रियादिकुशलो ह्यकुशलान्महान्तं लाभमाप्नोति तद्वदिति भावः । श्लेषसंकीर्णे- यमुपमा । उपमासंकीर्णः श्लेष इत्यन्ये ॥ ३२ ॥

 रजनीमवाप्य रुचमाप शशी सपदि व्यभूपयदसावपि ताम् ।
 अविलम्बितक्रममहो महतामितरेतरोपकृतिमच्चरितम् ॥ ३३ ॥

 रजनीमिति ॥ शशी रजनीमवाप्य रुचं शोभामाप । असौ शश्यपि तां रजनी सपदि व्यभूषयत् । महतां सतां चरितमविलम्बितक्रमं यथा तथा इतरे- तरोपकृतिमत् अन्योन्योपकारवत् अहो इत्यविलम्बादाश्चर्यम् । अत्र रजनीशशि- नोर्मिथःशोभाकरत्वादन्योन्यालंकारः। 'तदन्योन्यं मिथो यत्रोत्पाद्योत्पादकता भवेत्'

इति लक्षणात् । तत्समर्थकश्वायमर्थान्तरन्यास इत्यङ्गाङ्गिभावेन संकरः ॥ ३३ ॥