विशदप्रभापरिगतं विबभावुदयाचलव्यवहितेन्दुवपुः ।
मुखमप्रकाशदशनं शनकैः सविलासहासमिव शक्रदिशः ॥२६॥
विशदेति ॥ विशदप्रभापरिगतं शुभ्रकान्तिव्याप्तम् । उदय इति अचलः । 'उदयः पूर्वपर्वतः' इत्यमरः । तेन व्यवहितमिन्दुवपुरिन्दुमण्डलं यस्मिन् शक्र- दिशः प्राच्या मुखमग्रभागः वकं च प्रतीयते तदभेदेनोत्प्रेक्ष्यते । अप्रकाशदश- नमलक्ष्यदन्तं सविलासहासं सविलासस्मितमिव शनकैर्मन्दं विबभौ ॥ २६ ॥
कलया तुषारकिरणस्य पुरः परिमन्दभिन्नतिमिरौघजटम् ।
क्षणमभ्यपद्यत जनैर्न मृषा गगनं गणाधिपतिमूर्तिरिति ॥ २७॥
कलयेति ॥ पुरः प्राच्यामग्रभागे च तुषारकिरणस्येन्दोः कलया किरणेन अन्यत्रोपलक्षितं परिमन्दमल्पं भिन्ना विदलितास्तिमिरौघा एव जटा यस्य तत् गगनं न मृषा सत्यम् । गणाधिपतेः प्रमथपतेरीश्वरस्य । 'गणाः प्रमथसंख्यौघाः' इति वैजयन्ती । मूर्तिरिति जनैः क्षणमभ्यपद्यत । 'गगनमष्टानां शिवमूर्तीनाम- न्यतममिति यत्तत्सत्यम्, अभिपन्नमित्यर्थः । कलामात्रोदितश्चन्द्र इति फलितो- ऽर्थः । रूपकालंकारः ॥ २७ ॥
नवचन्द्रिकाकुसुमकीर्णतमःकबरीभृतो मलयजामिव ।
ददृशे ललाटतटहारि हरेर्हरितो मुखे तुहिनरश्मिदलम् ॥ २८ ॥
नवेति ॥ नवचन्द्रिकाभिरेव कुसुमैः कीर्णं तम एव कबरी केशपाशः । 'जानपद-' (४।१।४२) इत्यादिना ङीप् । तां बिभर्तीति तद्भृतः हरेः शक्रस्य हरितो दिशो मुखेऽग्रभाग एव मुखं वक्रमिति श्लिष्टरूपकम् । तस्यैव ललाटतटव- द्धारि मनोहरं हिमरश्मिदलमिन्दुखण्डं मलयजेन चन्दनेनार्द्रमिव ददृशे । धाव- ल्यादिति भावः । अत्र नवचन्द्रिकाकुसुमेत्याद्येकदेशविवर्तिरूपकमहिम्ना हरिवधू- त्वप्रतीतौ तत्सहकृतश्लेषावगतवक्त्राभेदाध्यवसितमुखसंबन्धप्रसादासादितललाटत- टोपमोज्जीवनेनेन्दुदलस्यानुपात्तनिजधावल्यगुणनिमित्तमलयजार्द्रत्वगुणस्वरूपोत्प्रेक्षे- ति संकरः ॥ २८॥
प्रथमं कलाभवदथार्धमथो हिमदीधितिर्महदभूदुदितः ।
दधति ध्रुवं क्रमश एव न तु द्युतिशालिनोऽपि सहसोपचयम् ॥२९॥
प्रथममिति ॥ हिमदीधितिश्चन्द्रः प्रथमं कला कलामात्रमभवत् । 'कला तु षोडशो भागः' इत्यमरः । अथार्धमात्रमभवत् । अथो अनन्तरम् । 'अथो अथ' इत्यमरः । उदितः साकल्यादुत्थितः सन् अमहान्महान्संपद्यमानोऽभून्म- हदभूत् । अभूततद्भावे च्विः । हलन्तत्वान्न कार्यान्तरप्राप्तिः । तथा हि-द्युति- शालिनस्तेजिष्ठा अपि क्रमशः क्रमेणैवोपचयं वृद्धिं दधति, सहसा झटिति तु न दधति ध्रुवम् । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ २९॥
उदमज्जि कैटभजितः शयनादपनिद्रपाण्डुरसरोजरुचा ।
प्रथमप्रबुद्धनदराजसुतावदनेन्दुनेव तुहिनद्युतिना ॥ ३०॥
-