पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ शिशुपालवधे नावि नौरिव संबद्धा यथाऽन्धो वाऽन्धमन्वियात् । तथाभूता हि कौरव्या येषां भीष्म त्वमग्रणीः ॥ पूतनाघात पूर्वाणि कर्माण्यस्य विशेषतः । (शिशु० १५।३६) त्वया कीर्तयताऽस्माकं भूयः प्रव्यथितं मनः ॥ अवलिप्तस्य मूर्खस्य केशवं स्तोतुमिच्छतः । कथं भीष्म न ते जिह्वा शतधेयं विदीर्यते ॥ यत्र कुत्सा प्रयोक्तव्या भीष्म चालतरैर्नरैः । तमिमं ज्ञानवृद्धः सन्गोपं संस्तोतुमिच्छसि ॥ यद्यनेन हता बाल्ये शकुनिश्चित्रमत्र किम् | तौ वाऽश्ववृषभौ भीष्म यौ न युद्धविशारदौ || चेतनारहितं काष्टं यद्यनेन निपातितम् । पादेन शकटं भीष्म तत्र किं कृतमद्भुतम् ॥ (शिशु० १५१३७) वल्मीकमात्रः सप्ताहं यद्यनेन धृतोऽचलः । तदा गोवर्धनो भीष्म न तच्चित्रं मतं मम ॥ भुक्तमेतेन बहन्नं क्रीडता नगमूर्धनि । इति ते भीष्म शृण्वानाः परे विस्मयमागताः ॥ यस्य चानेन धर्मज्ञ भुक्तमन्नं वलीयसः । स चानेन हतः कंस इत्येतन्न महाद्भुतम् ॥ न ते श्रुतमिदं भीष्म नूनं कथयतां सताम् । यद्वक्ष्ये त्वामधर्मज्ञं वाक्यं कुरुकुलाधम || स्त्रीषु गोषु न शस्त्राणि पातयेद्ब्राह्मणेषु च । यस्य चान्नानि भुंजीत यत्र च स्यात्प्रतिश्रयः ॥ इति सन्तोऽनुशासन्ति सज्जनं धर्मिणः सदा । भीष्म लोके हि तत्सर्व वितथं त्वयि दृश्यते ॥ ज्ञानवृद्धं च वृद्धं च भूयांसं केशवं मम | अजानत इवाख्यासि संस्तुवन्कौरवाधम || गोघ्नः स्त्रीघ्नश्च सन्भीष्म त्वद्वाक्याद्यदि पूज्यते । एवंभूतश्च यो भीष्म कथं संस्तवमर्हति ॥ न गाथा गाथिनं शास्ति बहु चेदपि गायति । प्रकृतिं यान्ति भूतानि भूलिंगशकुनिर्यथा ॥ नूनं प्रकृतिरेषा ते जघन्या नात्र संशयः । अतः पापीयसी चैषां पाण्डवानामपीष्यते ॥ येसामर्च्यतमः कृष्णस्त्वं च येषां प्रदर्शकः । 'धर्मवांस्त्वमधर्मज्ञः सतां मार्गावठुतः ॥ चेत्त्वं धर्म विजानासि यदि प्राज्ञा मतिस्तव | अन्यकामा हि धर्मज्ञा कन्यका प्राज्ञमानिना |