पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । युधिष्ठिराभिषेकं च वासुदेवस्य चार्हणम् । न स्याद्यथा तथा कार्यमेवं सर्वे तदाऽब्रुवन् ॥ सुहृद्भिर्वार्यमाणानां तेषां हि वपुराबभौ । आमिषादपकृष्टानां सिंहानामिव गर्जताम् ॥ तं बलौघमपर्यन्तं राजसागरमक्षयम् । कुर्वाणं समयं कृष्णो युद्धाय बुबुधे तदा ॥ वैशम्पायन उवाच- ( इति ३९ अध्यायः । ) ततः सागरसंकाशं दृष्ट्वा नृपतिमण्डलम् । संवर्तवाताभिहतं भीमं क्षुब्धमिवार्णवम् ॥ रोषात्प्रचलितं सर्वमिदमाह युधिष्ठिरः | भीष्मं मतिमतां मुख्यं वृद्धं कुरुपितामहम् ॥ असौ रोषात्प्रचलितो महान्नृपतिसागरः । अत्र यत्प्रतिपत्तव्यं तन्मे ब्रूहि पितामह || यज्ञस्य च न विघ्नः स्यात्प्रजानां च हितं भवेत् । यथा सर्वत्र तत्सर्व ब्रूहि मेऽद्य पितामह ॥ इत्युक्तवति धर्मशे धर्मराजे युधिष्ठिरे । उवाचेदं वचो भीष्मस्ततः कुरुपितामहः ॥ मा भैस्त्वं कुरुशार्दूल श्वा सिंहं हन्तुमर्हति । शिवः पन्थाः सुनीतोऽत्र मया पूर्वतरं वृतः ॥ न हि संबुध्यते यावत्सुप्तः सिंह इवाच्युतः । तेन सिंहीकरोत्येतान्नृसिंहश्चेदिपुङ्गवः ॥ पार्थिवान्पार्थिवश्रेष्ठः शिशुपालोऽप्यचेतनः । सर्वान्सर्वात्मना तात नेतुकामो यमक्षयम् ॥ नूनमेतत्समादातुं पुनरिच्छत्यधोक्षजः । यदस्य शिशुपालस्य तेजस्तिष्ठति भारत ॥ आदातुं च नरव्याघ्रो यं यमिच्छत्ययं तदा । तस्य विप्लवते बुद्धिरेवं चेदिपतेर्यथा ॥ वैशम्पायन उवाच - इति तस्य वचः श्रुत्वा ततश्चेदिपतिर्नृपः । भीष्मं रूक्षाक्षरा वाचः श्रावयामास भारत ॥ ( इति ४० अध्यायः । ) शिशुपाल उवाच - बिभीषिकाभिर्वह्वीभिभषयन्सर्वपार्थिवान् । न व्यपत्रपसे कस्माद्वृद्धः सन्कुलपांसनः ॥ ( शिशु० १५॥१९ ) युक्तमेतत्तृतीयायां प्रकृतौ वर्तता त्वया । वक्तुं धर्मादपेतार्थ त्वं हि सर्वकुरूत्तमः ॥