पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशुपालवधे सदेवकेषु लोकेषु भगवान् केशवो मुखम् ॥ अयं तु पुरुषो बालः शिशुपालो न बुध्यते । सर्वत्र सर्वदा कृष्णं तस्मादेवं प्रभाषते ॥ यो हि धर्म विचिनुयादुत्कृष्टं मतिमान्नरः । स वै पश्येद्यथा धर्म न तथा चेदिराडयम् ॥ अथैनां दुष्कृतां पूजां शिशुपालो व्यवस्यति । दुष्कृतायां यथान्यायं तथाऽयं कर्तुमर्हति ॥ ( इति ३८ अध्यायः । ) वैशम्पायन उवाच —— एवमुक्त्वा ततो भीष्मो विरराम महाबलः । व्याजहारोत्तरं तत्र सहदेवोऽर्थवद्वचः ॥ केशवं केशिहन्तारमप्रमेयपराक्रमम् । पूज्यमानं मया यो वः कृष्णं न सहते नृपः ॥ सर्वेषां बलिनां मूर्ध्नि मयेदं निहितं पदम् । एवमुक्ते मया सम्यगुत्तरं प्रब्रवीतु सः ॥ स एव हि मया वध्यो भविष्यति न संशयः । ततो न व्याजहारैषां कश्चिद् बुद्धिमतां सताम् ॥ मानिनां बलिनां राज्ञां मध्ये वै दर्शिते पदे । ततोऽपतत्पुष्पवृष्टिः सहदेवस्य सूर्धनि | अदृश्यरूपा वाचश्चाप्यब्रुवन्साधु साध्विति | आविध्यदजितं कृष्णं भविष्यद्भूतजल्पकः ॥ सर्वसंशय निर्मोक्ता नारदः सर्वलोकवित् । उवाचाखिलभूतानां मध्ये स्प कृष्णं कमलपत्राक्षं नार्चयिष्यन्ति ये नराः । जीवन्मृतास्तु ते ज्ञेया न संभाष्याः कदाचन ॥ वैशम्पायन उवाच – चचः ॥ पूजयित्वा च पूजार्हान्ब्रह्मक्षत्र विशेषवित् । सहदेवो नृणां देवः समापयत कर्म तत् ॥ तस्मिन्नभ्यर्चिते कृष्णे सुनीथः शत्रुकर्षणः । अतिताम्रेक्षणः कोपादुवाच मनुजाधिपान् ॥ स्थितः सेनापतिर्योऽहं मन्यध्वं किंतु सांप्रतम् । युधि तिष्ठाम संना समेतान्वृष्णिपाण्डवान् ॥ इति सर्वान्समुत्साह्य राज्ञस्तांश्चेदिपुङ्गवः । पघाताय ततः सोऽमन्त्रयत राजभिः ॥ तत्राहूता गताः सर्वे सुनीथप्रमुखा गणाः । समदृश्यन्त संक्रुद्धा विवर्णवदनास्तथा ॥