पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । वैशम्पायन उवाच - ततो युधिष्ठिरो राजा शिशुपालमुपाद्रवत् । उवाच चैनं मधुरं सान्त्वपूर्वमिदं वचः ॥ नेदं युक्तं महीपाल यादृशं वै त्वमुक्तवान् । अधर्मश्च परो राजन्पारुष्यं च निरर्थकम् ॥ न हि धर्म परं जातु नावबुध्येत पार्थिवः । भीष्मः शान्तनवस्त्वेनं मावसंस्था स्त्वमन्यथा ॥ पश्य चैतान्महीपालांस्त्वत्तो वृद्धतरान्बहून् । मृष्यन्ते चाहणं कृष्णे तद्वत्त्वं क्षन्तुमर्हसि ॥ वेद तत्त्वेन कृष्णं हि भीष्मश्वेदिपते भृशम् । नहोनं त्वं तथा वेत्थ यथैनं वेद कौरवः ॥ भीष्म उवाच - नास्मै देयो ह्यनुनयो नायमर्हति सान्त्वनम् | लोकवृद्धतमे कृष्णे योऽर्हणां नाभिमन्यते ॥ क्षत्रियः क्षत्रियं जित्वा रणे रणकृतां वरः । यो मुञ्चति वरो कृत्वा गुरुर्भवति तस्य सः ॥ अस्यां हि समितौ राज्ञामेकमप्यजितं युधि । न पश्यामि महीपालं सात्वतीपुत्रतेजसा ॥ न हि केवलमस्माकमयमर्च्यतमोऽच्युतः । त्रयाणामपि लोकानामर्चनीयो महाभुजः ॥ कृष्णेन हि जिता युद्धे बहवः क्षत्रियर्षभाः । जगत्सर्व च वार्ष्णेये निखिलेन प्रतिष्ठितम् ॥ तस्मात्सत्स्वपि वृद्धेषु कृष्णमर्चामि नेतरान् । यशः शौर्य जयं चास्य विज्ञायाऽर्चा प्रयुज्महे । न च कश्चिदिहाऽस्माभिः सुबालोऽप्यपरीक्षितः ॥ गुणैर्वृद्धानतिक्रम्य हरिरर्च्यतमो मतः । ज्ञानवृद्धो द्विजातीनां क्षत्रियाणां बलाधिकः ॥ वैश्यानां धान्यधनवाञ्शूद्राणामेव जन्मतः । पूज्यतायां च गोविन्दे हेतू द्वावपि संस्थितौ ॥ वेदवेदाङ्गविज्ञानं बलं चाप्यधिकं तथा । नृणां लोके हि कोऽन्योऽस्ति विशिष्टः केशवाहते ॥ अग्निहोत्रमुखा वेदा गायत्री छन्दसां मुखम् । राजा मुखं मनुष्याणां नदीनां सागरो मुखम् ॥ नक्षत्राणां मुखं चन्द्र आदित्यस्तेजसां मुखम् । पर्वतानां मुखं मेरुर्गरुडः पंततां मुखम् ॥ ऊर्ध्व तिर्यगधश्चैव यावती जगतो गतिः ।