पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०३
अष्टमः सर्गः ।

कार्ष्ण्येन । वैवर्ण्येन सहेति यावत् । समधित संदधे । बतेति खेदे । संपूर्वाद्द- धातेः कर्तरि लुङि तङ् 'स्थाध्वोरिच्च' (१।२।१७) इतीकारः । सिचः कित्त्वान्न गुणः । 'ह्रस्वादङ्गात्' (८।२।२७) इति सकारलोपः । गलत्स्रवदक्ष्णोः संबन्धिः अञ्जनाम्भः कज्जलोदकमपशब्दं वर्णस्यापवादं प्राप। कोपकालिमतिरोधानेन स्वका- लिम्न एव प्रकाशनादिति भावः । पूर्वेण वाक्यार्थेनोत्तरवाक्यार्थसमर्थनाद्वाक्यार्थ- हेतुकं काव्यलिङ्गम् ॥ ४३ ॥

  उद्वोढुं कनकविभूषणान्यशक्तः
   सध्रीचा वलयितपद्मनालसूत्रः ।
  आरूढप्रतिवनिताकटाक्षभार:
   साधीयो गुरुरभवद्भुजस्तरुण्याः ॥ ४४ ॥

 उद्वोढुमिति ॥ कनकविभूषणान्युद्वोढुमशक्तः । सौकुमार्यादिति भावः । अत एव सहाञ्चतीति सध्र्यङ् तेन सहचरेण कर्त्रा । ऋत्विगादिना क्विन्प्रत्ययः । 'सहस्य सध्रिः' (६।३।९५) इति सहशब्दस्य सध्र्यादेशः । 'अनिदिताम्-' (६।४।२४) इति नकारलोपः 'अचः' (६।४।१३८) इत्यकारलोपे 'चौ' (६॥३।१३८) इति दीर्घः । वलयितानि वलयीकृतानि पद्मनालसूत्राणि मृणालतन्तवो यस्य सः । मृणालकृतकङ्कण इत्यर्थः । तथापि आरूढ आरूढवान् प्रतिवनितायाः सपत्न्याः कटाक्ष एव भारो यस्य सः । तया सासूयं दृष्ट इत्यर्थः । अत एव तरुण्या भुजो बाहुः साधीयो बाढतरमिति क्रियाविशेषणम् । 'अन्तिकबाढयोर्नेदसाधौ' (५।३।६३) इति बाढशब्दस्य साधादेशः । गुरुर्भारवान् , श्लाघ्यश्चाभवत् । अत्र कनकभूषणा- भावेऽपि तत्कार्यगुरुत्ववर्णनाद्विभावना सा च गुरुरिति श्लेषप्रतिभोत्थापितातिश- योक्त्यनुप्राणितेति संकरः ॥ ४४ ॥

  आबद्धप्रचुरपरार्ध्यकिंकिणीको
   रामाणामनवरतोदगाहभाजाम् ।
  नारावं व्यतनुत मेखलाकलाप:
   कस्मिन्वा सजलगुणे गिरां पटुत्वम् ॥ ४५ ॥

 आबद्धेति ॥ उदकस्य गाहोऽवगाहनं उदगाहः । 'मन्थौदन-' (६।३।६०) इत्यादिनोदादेशः । तमनवरतं भजन्ति यास्तासामनवरतोदगाहभाजां रामाणां स्त्रीणां संबन्धी आबद्धाः प्रोताः प्रचुरा भूयिष्ठाः परार्ध्याः श्रेष्ठाश्च किंकिण्यो यस्मिन् स तथोक्तः । 'नद्यृतश्च' (५।४।१५३) इति कप् । मेखलाकलाप आरावं ध्वनिं न व्यतनुत । तथा हि-जलेन सह सजलो जलार्द्रो गुणः सूत्रं यस्य सः । तथा डलयोरभेदाज्जडगुणो जडधर्मो जाड्यं तेन सहेति सजडगुणो जडश्च तस्मिन् कस्मिन्वा मेखलाकलापे पुंसि वा गिरां वाचां, ध्वनीनां च पटुत्वं सामर्थ्यम् । न कुत्रापीत्यर्थः । श्लेषमूलाभेदातिशयोक्त्यनुप्राणितोऽयमर्थान्तरन्यासः ॥ ४५ ॥

  पर्यच्छे सरसि हृतेंऽशुके पयोभि-
   र्लोलाक्षे सुरतगुरावपत्रपिष्णोः।