पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२०२
शिशुपालवधे

'वदव्रज-' (७॥२॥३) इत्यादिना सिचि वृद्धिः घत्वादिकार्यम् । तत्सेकादेवापरस्याः तापोदयात्तत्तापस्यैवात्राधानमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥ ४० ॥

  संक्रान्तं प्रियतमवक्षसोऽङ्गरागं
   साध्वस्याः सरसि हरिष्यतेऽधुनाम्भः ।
  तुष्ट्वैवं सपदि हृतेऽपि तत्र तेपे
   कस्याश्चित्स्फुटनखलक्ष्मणः सपत्न्या ॥४१॥

 संक्रान्तमिति ॥ प्रियतमवक्षसः सकाशात् संक्रान्तं गाढालिङ्गनात्कुचतटलग्न- मस्याः सिक्ताया अङ्गरागमधुनैव सरसि अम्भः कर्तृ । साधु निःशेषं हरिष्यते प्रमा- यति एवं तुष्ट्वा इति बुद्ध्वा सपदि तत्र तस्मिन्नङ्गरागे हृतेऽपि स्फुटनखलक्ष्मणो व्यक्तनखचिह्वायाः कस्याश्चिन्नायिकायाः संबन्धिनि सपत्न्या तेपे तप्तम् । भावे लिट् । तदिदमातपार्तस्य छायामन्विष्यतो दारुणदवदहनवेष्टनं यदङ्गरागमेव द्रष्टु- मक्षमाया नखक्षतसाक्षात्कार इति । अत्र संतापशान्त्यर्थेन विपक्षाङ्गनाङ्गरागक्षा- लनेन तद्विरुद्धसंतापोत्पादनाद्विरुद्धकार्योत्पत्तिरूपो विषमालंकारः॥४१॥

  हूतायाः प्रतिसखि कामिनान्यनाम्ना
   ह्रीमत्याः सरसि गलन्मुखेन्दुकान्तेः ।
  अन्तर्धिं द्रुतमिव कर्तुमश्रुवर्षै-
   र्भूमानं गमयितुमीषिरे पयांसि ॥ ४२ ॥

 हूताया इति ॥ प्रतिसखि सख्याः समीपे । सखीसमक्षमित्यर्थः । समी- पार्थेऽव्ययीभावे नपुंसकत्वह्रस्वत्वे । कामिना प्रियेणान्यस्याः सपत्न्याः नाम्ना अन्य- नाम्ना । सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः । हूताया अत एव गलन्मुखेन्दुकान्तेः ह्रीमत्या लज्जितायाश्च । कस्याश्चिदिति शेषः । सरसि द्रुतं शीघ्रमन्तर्धिमन्तर्धा- नम् । श्रदन्तरोरुपसर्गवद्वृत्तिवचनात् 'उपसर्गे घोः किः' (३।३।९२) इति किप्रत्ययः । कर्तुमश्रुवर्षैः कर्तृभिः पयांसि सरोजलानि भूमानं गमयितुं वृद्धिं प्रापयितुम् । 'गतिबुद्धि-' (१।४।५२) इत्यादिना अणिकर्तुः कर्मत्वं प्राधान्याद- भिधानं च । ईषिरे इव इष्टानि किमु इत्युत्प्रेक्षेयमश्रुपातनिमित्ता । तथा मरणदुः- खादपि दुःसहं सपत्न्या दुःखमिति वस्तुध्वनिः ॥ ४२ ॥

  सिक्तायाः क्षणमभिषिच्य पूर्वमन्या-
   मन्यस्याः प्रणयवता बताबलायाः।
  कालिम्ना समधित मन्युरेव वक्त्रं
   प्रापाक्ष्णोर्गलदपशब्दमञ्जनाम्भः ॥४३॥

 सिक्ताया इति ॥ प्रणयवता प्रियेण क्षणं पूर्वमन्यां सपत्नीमभिषिच्य पश्चात्

सिक्ताया अन्यस्या अबलायाः स्त्रिया वक्त्रं कर्म मन्युः कोप एव कर्ता । कालिम्ना