पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
शिशुपालवधे

 अथ जलक्रीडासंभारानाह-

  शृङ्गाणि द्रुतकनकोज्ज्वलानि गन्धाः
   कौसुम्भं पृथु कुचकुम्भसङ्गि वासः।
  मार्द्वीकं प्रियतमसंनिधानमास-
   न्नारीणामिति जलकेलिसाधनानि ॥३०॥

 शृङ्गाणीति ॥ द्रुतेन तप्तनिषिक्तेन कनकेनोज्ज्वलानि । लिप्तानीत्यर्थः । शृङ्गाणि क्रीडाम्बुयन्त्राणि । 'शृङ्गं प्रभुत्वे शिखरे चिह्ने क्रीडाम्बुयन्त्रके' इति विश्वः । गन्धाश्चन्दनकुङ्कुमादिगन्धद्रव्याणि । अत एव पुंसि बहुत्वं च । 'गन्धस्तु सौरभे योगे गन्धके गर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इत्यभिधानात् । पृथु विशालं कुचकुम्भसङ्गि कुचावरणं कुसुम्भेन रक्तं कौसुम्भम् । 'तेन रक्तं रागात्' (४।२।१) इत्यण् प्रत्ययः । वासो वस्त्रं मृद्वीकाया विकारो मार्द्वीकं द्राक्षामद्यम् । 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः । किंच प्रियतमसंनिधानम् । सर्वसाफल्यकारणमिति भावः । इत्येतानि नारीणां जलकेलिसाधनानि जलक्रीडोपाया आसन् । उद्दीपकसंपत्तिरुक्ता । अत्र शृङ्गादीनां केलिसाधनत्वस्वरूपतुल्यधर्मयोगात्प्रकृतत्वाच्च केवलप्रकृतगोचरा तुल्ययोगिता ॥ ३०॥

  उत्तुङ्गादनिलचलांशुकास्तटान्ता-
   च्चेतोभिः सह भयदर्शिनां प्रियाणाम् ।
  श्रोणीभिर्गुरुभिरतूर्णमुत्पतन्त्य-
   स्तोयेषु द्रुततरमङ्गना निपेतुः॥३१॥

 उत्तुङ्गादिति ॥ अनिलेन वेगानिलेन चलांशुकाश्चलद्वसना अङ्गनाः उत्तुङ्गात्तटान्ताद्भयदर्शिनां भयोत्प्रेक्षिणाम् । अनर्थाशङ्किनामित्यर्थः । प्रियाणां चेतोभिः सह । तेषां तत्रैवावधानादिति भावः । गुरुभिर्गुर्वीभिः । 'वोतो गुणवचनात्' (४।१।४४) इति विकल्पादनीकारः । श्रोणीभिर्हेतुना अतूर्णं मन्दमुत्पतन्त्यस्तोयेषु द्रुततरं निपेतुः । गुरुत्वस्य पतनहेतुत्वादुत्पतनविरोधित्वाच्च शीघ्रपातो मन्दोत्पतनं चेति भावः । अत्र प्रियचेतःपाताङ्गनापातयोः कार्यकारणयोरसहभाविनोः सहभावोक्तेः कार्यकारणयोः पौर्वापर्यविध्वंसनरूपातिशयोक्त्युपजीविता सहोक्तिरलंकारः। 'सहार्थेनान्वयो यत्र भवेदतिशयोक्तितः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहेष्यते ॥' इति लक्षणात् । चेतोवत्पेतुरित्यौपम्यकल्पनया कार्यगताशुभावप्रतीतेश्चमत्कार इति रहस्यम् । तात्कालिकांशुकचलनादिसूक्ष्मस्वभावविशेषप्रकाशनात्स्वभावोक्तिश्चेति संकरः ॥ ३१ ॥

  मुग्धत्वादविदितकैतवप्रयोगा
   गच्छन्त्यः सपदि पराजयं तरुण्यः ।