पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
अष्टमः सर्गः ।

याश्च मतोर्वोऽयवादिभ्यः' (८।२।९) इति मतुपो मकारस्य वत्त्वम् । कस्याश्चित्केशहस्तः केशपाशः । 'पाशः पक्षश्च हस्तश्च कलापार्थाः कचात्परे' इत्यमरः । हस्त इति करश्च ध्वन्यते । आरात्समीपे । 'आरादूरसमीपयोः' इत्यमरः । अवगाढमन्तर्मग्नं दयितमादातुं ग्रहीतुमिव ऊर्मीणां ततिभिः समूहैरभिप्रसार्यमाणोऽभितो व्यापार्यमाणः सन् रराज । अत्रादातुमिव प्रसार्यमाण इति प्रसारणस्यादानार्थत्वोत्प्रेक्षणादियं क्रियानिमित्ता क्रियाफलोत्प्रेक्षा । सा च चलच्छिखाङ्गुलीक इति रूपकानुप्राणितया हस्त इति श्लेषमूलया वाच्यस्य केशकलापस्य प्रतीयमानात्कराद्भेदे अभेदरूपातिशयोक्त्या निर्व्यूढेति संकरः ॥ २७ ॥

  उन्निद्रप्रियकमनोरमं रमण्या:
   संरेजे सरसि वपुः प्रकाशमेव ।
  युक्तानां विमलतया तिरस्क्रियायै
   नाक्रामन्नपि हि भवत्यलं जलौघः॥२८॥

 उन्निद्रेति ॥ उन्निद्रं यत् प्रियकं असनकुसुमम् । 'सर्जकासनबन्धूकपुष्पप्रियकजीवकाः' इत्यमरः । तदिव मनोरमम् । कनकगौरमित्यर्थः । रमण्या वपुः सरसि प्रकाशमेव जलमग्नमपि वैमल्याल्लक्ष्यमेव संरेजे । तथा हि-जलौघो जलपूरो, जडौघो मूर्खजनौघश्च डलयोरभेदात् । आक्रामन्नावृण्वन्नपि, अन्यत्र अधिक्षिपन्नपि विमलतया वैमल्येन युक्तानां शुद्धानां तिरस्क्रियायै तिरोधानाय, परिभवाय च अलं समर्थो न भवति हि । श्लेषमूलया भेदेऽभेदरूपातिशयोक्त्यानुप्राणितोऽयमर्थान्तरन्यासः ॥ २८॥

  किं तावत्सरसि सरोजमतदारा-
   दाहोस्विन्मुखमवभासते युवत्याः।
  संशय्य क्षणमिति निश्चिकाय कश्चि-
   द्विव्वोकैर्बकसहवासिनां परोक्षैः ॥ २९ ॥

 किमिति ॥ सरस्याराद्दूरादेतत्पुरोवर्ति तावत्सरोजं किम् , आहोस्वित् उत युवत्या मुखमवभासत इति क्षणं संशय्य संदिह्य । शीङः क्त्वो ल्यप् । 'अयङ् यि क्ङिति' (७४।२२) इत्ययङादेशः । कश्चिद्विलासी बकसहवासिनां बकसहचारिणाम् । पद्मानामित्यर्थः । विलासशून्यताद्योतनार्थमित्थं निर्देशः । परोक्षैरप्रत्यक्षैरनुभूतचरैः । अविद्यमानैरिति यावत् । विव्वोकैः । विलासैरित्यर्थः । यद्यपि 'वियोकोऽनादरक्रिया' (दशरूपके २।४१) इत्युक्तम् , तथापि विशेषवाचिनां सामान्ये लक्षणेत्यदोषः । निश्चिकाय । विशेषदर्शनान्मुखमेवेति निश्चितवानित्यर्थः । संदेहालंकारोऽयम् । 'विषयो विषयी यत्र सादृश्यात्कविसंमतात् । संदेहगोचरौ स्यातां

संदेहालंकृतिश्च सा ॥' इति लक्षणात् । सोऽप्यन्ते निश्चयोक्तेर्निश्चयान्तः ॥ २९ ॥