कारणं विनापि । 'पृथग्विना-' (२।३।३२) इत्यादिना विकल्पात्पञ्चमी । लीलाभिर्विलासैः प्रसभं प्रकामं क्षुभ्यन्ति । अहो निष्कारणक्षोभादाश्चर्यमित्यर्थः । कारणे सति किमु वक्तव्यम् । अत्राप्रकृतनिष्कारणक्षोभकथनात्सकारणक्षोभस्य कैमुत्यन्यायलब्धत्ववर्णनादर्थापत्तिरलंकारः । 'दण्डापूपिकयार्थान्तरस्यापतनमर्थापत्तिः' इति सूत्रम् ॥ २४ ॥
आकृष्टप्रतनुवपुर्लतैस्तरद्भि-
स्तस्याम्भस्तदथ सरोमहार्णवस्य ।
अक्षोभि प्रसृतविलोलबाहुपक्षै-
र्योषाणामुरुभिरुरोजगण्डशैलैः ॥ २५ ॥
आकृष्टेति ॥ अथानन्तरमाकृष्टाः प्रतनवो वपूंष्येव लता यैस्तैस्तरद्भिः प्लवमानैः प्रसृता आयता विलोलाश्चला बाहव एव पक्षा गरुन्ति येषां तैः । गिरिधर्मस्य पक्षवत्त्वस्य तदवयवेषूपचारः । उरुभिर्महद्भिर्योषाणां स्त्रीणामुरोजैरेव गण्डशैलैर्गिरिच्युतैः स्थूलोपलैस्तस्य सर एव महार्णवस्तस्य तदम्भः अक्षोभि । क्षुभ्यतेर्ण्यन्तादण्यन्ताद्वा कर्मणि लुङ् । समस्तवस्तुविषयकं सावयवं रूपकम् ॥ २५ ॥
गाम्भीर्यं दधदपि रन्तुमङ्गनाभिः
संक्षोभं जघनविघट्टनेन नीतः।
अम्भोधिर्विकसितवारिजाननोऽसौ
मर्यादां सपदि विलङ्घयांबभूव ॥ २६ ॥
गाम्भीर्यमिति ॥ गाम्भीर्यमगाधत्वं, अविकारिचित्तत्वं च दधदपि गम्भीरः सन्नपि रन्तुं विहर्तुं संगन्तुं चाङ्गनाभिर्जघनस्य विघट्टनेन संघर्षेण संक्षोभं चलनं, चित्तविकारं च नीतः, अत एव विकसितं वारिजमाननमिव वारिजमिव चाननं यस्य सः अम्भांसि धीयन्तेऽस्मिन्निति अम्भोधिर्जलाशयः, असौ कश्चित्पुमांश्च तत्तुल्यो गम्यते । 'कर्मण्यधिकरणे च' (३।३।९३) इति किप्रत्ययः । सपदि मर्यादां सीमानं औचितीं च विलङ्घयांबभूव लङ्घितवान् । धीरोऽपि स्त्रीसंनिकर्षाद्विक्रियत इति भावः । अत्र गाम्भीर्यादिप्रकृताम्भोधिविशेषणसाम्यादप्रकृतविशेष्यपुरुषप्रतीतेः समासोक्तिरलंकारः । सा च प्रतीयमानाभेदाध्यवसायमूलातिशयोन्यनुप्राणितेति संकरः ॥ २६ ॥
आदातुं दयितमिवावगाढमारा-
दूर्मीणां ततिभिरभिप्रसार्यमाणः।
कस्याश्चिद्विततचलच्छिखाङ्गुलीको
लक्ष्मीवान् सरसि रराज केशहस्तः ॥ २७ ॥
आदातुमिति ॥ सरसि वितताः प्रसारिताश्चलन्त्यश्च शिखा अग्राण्येवाङ्गुल्यो
यस्य सः। 'नद्यृतश्च' (५।४।१५३) इति कप् । लक्ष्मीवान् शोभावान् । 'मादुपधा-