पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
अष्टमः सर्गः ।

सैकतं पुलिनम् । 'तोयोत्थितं तत्पुलिनं सैकतं सिकतामयम्' इत्यमरः । 'सिकताशर्कराभ्यां च' (५।२।१०४) इत्यण् प्रत्ययः । विगलितैर्विशीर्णैर्हारैश्चारुभिः स्वैः पल्यङ्कैः शयनैः । 'शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः' इत्यमरः । तुल्यं सदृशं परिवलयांचकार मेने । पूर्णोपमेयम् ॥ ९॥

  आघ्राय श्रमजमनिन्द्यगन्धबन्धुं
   निश्वासश्वसनमसक्तमङ्गनानाम् ।
  आरण्याः सुमनस ईषिरे न भृङ्गै-
   रौचित्यं गणयति को विशेषकामः ॥१०॥

 आघ्रायेति ॥ भृङ्गैः कर्तृभिः श्रमजमध्वश्रमोत्थम् । अनिन्द्यगन्धस्य श्लाघ्यगन्धस्य बन्धुं सहचरम् । तद्वन्तमित्यर्थः । अङ्गनानां निश्वासश्वसनं निश्वासमारुतम् । असक्तमप्रतिषिद्धमाघ्राय अरण्ये भवा आरण्याः सुमनसः पुष्पाणि नेषिरे नेष्टाः । 'इषु इच्छायाम्' कर्मणि लिट् । अनुचितोऽयमकाण्डे परिचितपरित्याग इत्याह । विशेषं कामयते इति विशेषकामः । 'शीलिकामिभक्ष्याचरिभ्यो णः' (वा०) इति णप्रत्ययः । क औचित्यं गणयति । न कोऽपीत्यर्थः । अर्थान्तरन्यासः ॥१०॥

  आयान्त्यां निजयुवतौ वनात्सशङ्कं
   बर्हाणामपरशिखण्डिनीं भरेण ।
  आलोक्य व्यवदधतं पुरो मयूरं
   कामिन्यः श्रदधुरनार्जवं नरेषु ॥११॥

 आयान्त्यामिति ॥ निजयुवतौ वनादायान्त्यामागच्छन्त्यां सत्यां सशङ्कं सभयमपरशिखण्डिनीं जारिणीं बर्हाणां भरेण व्यवदधतं छादयन्तं मयूरं पुर आलोक्य कामिन्यः प्रियेष्वनार्जवं कौटिल्यं श्रदधुर्विश्वस्तवत्यः । कुटिलाः पुरुषा इति निश्चिक्युरित्यर्थः । दधातेर्लुङि 'गातिस्था-' (२।४।७७) इत्यादिना सिचो लुक् । 'आतः' (३।४।११०) इति झेर्जुसादेशः । 'श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या' (वा०) इति श्रच्छब्दस्य धातोः प्राक् प्रयोगः ॥ ११ ॥

  आलापैस्तुलितरवाणि माधैवीनां
   माधुर्यादमलपतत्रिणां कुलानि ।
  अन्तर्धामुपययुरुत्पलावलीषु
   प्रादुःष्यात्क इव जितः पुरः परेण ॥१२॥

 आलापैरिति ॥ माधवीनां हरिवधूनामालापैः कर्तृभिः माधुर्याद्धेतोस्तुलितरवाणि तिरस्कृतरुतानि अमलपतत्रिणां हंसानां कुलानि उत्पलावलीष्वन्तर्धानम् ।

पाठा०-१ 'आयत्याम्'. २ 'मयूरमाराद्भामिन्यः'. ३ ‘०र्विजित'. ४ 'वाणिनीनां'.