पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
शिशुपालवधे

गच्छन्त्या इत्यर्थः । अत एव नीरजाक्ष्याः सर्वाङ्गे संस्पर्शप्रभवेन प्रियाङ्गसंगप्रभवेन सुखेनोपचीयमाने पोषं गमिते सति । अत एव गाढतां दृढत्वं व्रजदपि विगलितनीवि सुखपारवश्याद्विश्लिष्टग्रन्थि कौशेयं दुकूलमजस्रं सस्रंसे स्वस्तम् । एषा हृष्टा हर्षितरोमा च ॥ ६॥

  गच्छन्तीरलसमवेक्ष्य विस्मयिन्य-
   स्तास्तन्वीर्न विदधिरे गतानि हंस्यः ।
  बुद्धा वा जितमपरेण काममावि-
   ष्कुर्वीत स्वगुणमपत्रपः क एव ॥ ७ ॥

 गच्छन्तीरिति ॥ हंस्यो हंसाङ्गना अलसं मन्दं गच्छन्तीस्तास्तन्वीः स्त्रीरवेक्ष्य विसयिन्यो गतिसौष्ठवाद्विस्मयवत्यः सत्यो गतानि स्वयं लीलागमनानि न विदधिरे न चक्रुः । लज्जयेति भावः । तथा हि परेण जितं स्वगुणं बुद्ध्वा वा । बुद्ध्वापीत्यर्थः । क एव को वा अपत्रपः सन् काममाविष्कुर्वीत प्रकाशयेत् । न कश्चिदपीत्यर्थः । 'इदुदुपधस्य चाप्रत्ययस्य' (८।३।४१) इति विसर्जनीयस्य षत्वम् । अत्र तिरश्चां विवेकित्वातिशयोक्त्या गतिकरणनिषेधसमर्थनार्थोऽयमर्थान्तरन्यासः॥७॥

  श्रीमद्भिर्जितपुलिनानि माधवीना-
   मारोहनिबिडबृहन्नितम्बबिम्बैः ।
  पाषाणस्खलनविलोलमाशु नूनं
   वैलक्ष्याद्ययुरवरोधनानि सिन्धोः ॥ ८॥

 श्रीमद्भिरिति ॥ श्रीमद्भिः शोभावद्भिः निबिडा बृहन्तश्च नितम्बबिम्बाः कटिपश्चाद्भागा येषां तैः माधवस्येमा माधव्यस्तासां हरिवधूनां आरुह्यन्त इत्यारोहैः कटिपुरोभागैर्जघनैः जितपुलिनानि जितसैकतानि सिन्धोरवरोधनानि समुद्रमहिष्यः । नद्य इत्यर्थः । वैलक्ष्यात्पराजयकृतमनःसंकोचाद्धेतोः पाषाणेषु स्खलनेनाभिघातेन विलोलं यथा तथा आशु ययुः अगुः नूनम् । नदीनां स्वाभाविक्याः पाषाणस्खलिताशुगतेर्वैलक्ष्यहेतुकत्वोत्प्रेक्षणाद्गुणहेतूत्प्रेक्षा ॥ ८ ॥

  मुक्ताभिः सलिलरयास्तशुक्तिपेशी-
   मुक्ताभिः कृतरुचि सैकतं नदीनाम् ।
  स्त्रीलोकः परिकलयांचकार तुल्यं
   पल्यङ्कैर्विगलितहारचारुभिः स्वैः ॥९॥

 मुक्ताभिरिति ॥ स्त्रीलोकः स्त्रीजनः कर्ता । सलिलरयेणास्ता नुन्नाः शुक्तयो मुक्तास्फोटास्त एव पेश्यः कोशाः । पुटा इति यावत् । 'मुक्तास्फोटः स्त्रियां

शुक्तिः-' इति, 'पेशी कोशो द्विहीने' इति चामरः । ताभिर्मुक्ताभिर्विमुक्ताभिर्मौक्तिकैः । 'अथ मौक्तिकं मुक्ता' इत्यमरः । कृतरुचि कृतशोभं नदीनां सिकतामयं