अथ सर्वासामेव स्वेदोद्रेकं वर्णयति-
गत्वोद्रेकं जघनपुलिने रुद्धमध्यप्रदेशः
क्रामन्नूरुद्रुमभुजलताः पूर्णनाभीहृदान्तः ।
उल्लङ्घ्योच्चैः कुचतटभुवं प्लावयन् रोमकूपान्
स्वेदापूरो युवतिसरितां व्याप गण्डस्थलानि॥७४।।
गत्वेति ॥ युवतय एव सरितस्तासां स्वेद एवापूरः प्रवाहः जघनमेव पुलिनं तत्रोद्रेकं गत्वा रुद्ध आवृतो मध्यप्रदेशोऽवलग्नभागः, प्रवाहदेशश्च येन स पूर्णनाभीहृदान्तः। रेफान्तमकारान्तं वा । पूर्णेति पूरेर्ण्यन्तात्कर्मणि क्तः । 'वा दान्त-' (७।२।२७) इत्यादिना णिलुगिट्प्रतिषेधनिपातः । उच्चैरुन्नतौ कुचावेव तटौ तयोर्भुवं प्रदेशमुल्लङ्घ्य रोमकूपान् रोमाणि रोमरन्ध्राणि तान्येव कूपान् प्लावयन् पूरयन् गण्डस्थलानि कपोलभागान् , उन्नतभूभागांश्च प्राप । अत्र युवतिषु सरित्त्वस्य तदवयवेष्ववयवानां च निरूपणात्समवस्तुविषयसावयवरूपकं श्लेषानुप्राणितम् । मन्दाक्रान्ता वृत्तम् । 'मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत्' इति लक्षणात् ॥ ७४॥
एवमध्वश्रमानुभावं स्वेदोद्रेकं वर्णयित्वा तत्फलभूतां जलविहारेच्छामासां दर्शयति-
प्रियकरपरिमार्गादङ्गनानां यदाभूत्
पुनरधिकतरैव स्वेदतोयोदयश्रीः ।
अथ वपुरभिषेक्तुं तास्तदाम्भोभिरीषु-
र्वनविहरणखेदम्लानमम्लानशोभाः ॥ ७५ ॥
इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
वनविहारो नाम सप्तमः सर्गः ॥ ७ ॥
प्रियेति ॥ यदा अङ्गनानां प्रियकरपरिमार्गात्प्रियकरस्पर्शात् । मृजेर्घञ् प्रत्ययः। स्वेदतोयोदयश्रीः स्वेदोद्गमसंपत् पुनर्भूयोऽप्यधिकतरैवाभूत्तदा अम्लानशोभा अक्षीणकान्तयः । वपुषि म्लानेऽपीति भावः । ता अङ्गना वनविहरणखेदेन म्लानम् । म्लायतेः कर्तरि क्तः । 'संयोगादेरातो धातोर्यण्वतः' (८।२।४३) इति निष्ठानत्वम् । वपुरङ्गम् । अथ कार्त्स्न्येन । 'मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ' इत्यमरः । अम्भोभिरभिषेक्तुमीषुरिच्छन्ति स्म । इषेर्लिट् । अत्र पूर्ववाक्यार्थस्योत्तरवाक्यार्थसमर्थनहेतुकत्वेनोपनिबन्धाद्वाक्यार्थहेतुकं काव्यलिङ्गमलंकारः । मालिनी वृत्तम् ॥ ७५॥
इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये सप्तमः सर्गः ॥ ७ ॥