पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८६
शिशुपालवधे

मपि घनपुलकोदयेन सान्द्ररोमोद्गमेन कोमलं सदिति विरोधः । विपुलं विस्तृतं तदेव विपुलकमित्यविरोधः । प्रियैः प्रकामं परितो मलमस्येति परिमलं तत्कृतं परिमलितं मलिनीकृतं तथाप्युज्ज्वलं विमलमेव चकाश इति विरोधः । परिमलवत्कृतं परिमलितमित्यविरोधः । मत्वन्तात् 'तत्करोति-' (ग०) इति णिचि कर्मणि क्तः । णाविष्ठवद्भावे विन्मतोर्लुक् । अपिर्विरोधे । विरोधाभासालंकारयोः संसृष्टिः ॥ ७० ॥

 अथैकस्याः प्रियकण्ठावलम्बने श्रमानुभावमेकेनाह-

 अविरतकुसुमावचायखेदान्निहितभुजालतयैकयोपकण्ठम् ।
 विपुलतरनिरन्तरावलग्नस्तनपिहितप्रियवक्षसा ललम्बे ॥ ७१ ॥

 अविरतेति ॥ अविरतो यः कुसुमानामवचायो हस्तेन लवनम् । 'हस्तादाने चेरस्तेये' (३।३।४०) इति घञ् । तेन यः खेदस्तस्मात् भर्तुरुपकण्ठं कण्ठे । विभक्त्यर्थेऽव्ययीभावः । निहिते भुजालते यया तया । 'दोः प्रकोष्ठो भुजो बाहुर्भुजा च स्मर्यते बुधैः' इति वैजयन्ती । विपुलतरौ निरन्तरमवलग्नौ संश्लिष्टौ च यौ स्तनौ ताभ्यां पिहितं छादितं प्रियस्य वक्षो यया तयैकया स्त्रिया ललम्बे लम्बितम् । भावे लिट् ॥ ७१॥

 अथापरस्या अङ्गभङ्गाख्यमपरमनुभावमाह-

 अभिमतमभितः कृताङ्गभङ्गा कुचयुगमुन्नतिवित्तमुन्नमय्य ।
 तनुरभिलषितं क्लमच्छलेन व्यवृणुत वेल्लितबाहुवल्लरीका ॥७२॥

 अभिमतमिति ॥ तनुः काचित्तन्वी । 'वोतो गुणवचनात्' (४।१।४४) इति विकल्पादनीकारः । अभिमतमभितः। प्रियमभीत्यर्थः । उन्नतिवित्तं औन्नत्येन प्रतीतम् । विदेर्भावार्थात् 'वित्तो भोगप्रत्यययोः' (८।२।५८) इति प्रत्ययार्थे निष्ठानत्वाभावनिपातः । कुचयुगमुन्नमय्योत्तुङ्गीकृत्य कृतोऽङ्गभङ्गो गात्रविजृम्भणं यया सा । तथा वेल्लिते मिथोवेष्टिते बाहुवल्लर्यौ भुजलते यया सा । 'नद्यृतश्च' (५।४।१५३) इति कप् । क्लमच्छलेन । श्रमापनोदकचेष्टाव्याजेनेत्यर्थः । अभिलषितमालिङ्गनाद्यभिलषितं व्यवृणुत प्रकटितवती । वृणोतेर्लङ् । प्रौढेयमुत्सुका च ॥ ७२ ॥

 अथ कस्याश्चिन्मुग्धायाः प्रियचापलोक्तिद्वारा स्वेदोद्गमं प्रकटयति-

 हिमलवसदृशः श्रमोदबिन्दूनपनयता किल नूतनोढवध्वाः ।
 कुचकलशकिशोरको कथंचित्तरलतया तरुणेन पस्पृशाते ॥७३॥

 हिमेति ॥ हिमलवसदृशो हिमकणनिभान् श्रमोदबिन्दून् । स्वेदबिन्दूनित्यर्थः । 'मन्थौदन-' (६।३।६०) इत्यादिना उदकस्योदादेशः । अपनयता किल प्रमार्जतेव, न तु तत्र तात्पर्यमिति भावः । तरुणेन यूना नूतनोढवध्वाः कुचौ कलशाविव तौ च किशोरकाविव । उल्ललनसाम्यादश्वशावाविव । 'अश्वशावः किशोरकः' इत्यमरः । तौ कुचकलशकिशोरकौ । उभयत्राप्युपमितसमासः । कथंचित् क्लेशेन । सप्रतिषेधमेवेत्यर्थः । तरलतया चपलतया । उत्सुकतयेत्यर्थः । पस्पृशाते स्पृष्टौ ।

स्पृशेः कर्मणि लिद । मुग्धेयम् ॥ ७३ ॥