पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
सप्तमः सर्गः ।

'न सहन्त इति निःसहाः । पचाद्यजन्तेनोपसर्गस्य समासे त्वप्रत्ययः । कलभकराः करिहस्ता इवोरवो महान्तस्तैरूरुभिः सक्थिभिः । 'सक्थि क्लीवे पुमानूरुः' इत्यमरः ॥ ६६ ॥

 अपगतनवयावकैश्चिराय क्षितिगमनेन पुनर्वितीर्णरागैः ।
 कथमपि चरणोत्पलैश्चलद्भिर्भृशविनिवेशवशात्परस्परस्य ॥ ६७ ॥

 अपगतेति ॥ पुनश्चिराय चिरं क्षितिगमनेनापगतो नवयावको नवलाक्षारागो येषां तैः पुनस्तेनैव वितीर्णरागैः सौकुमार्यादुत्पादितरागैः परस्परस्य भृशविनिवेशवशात् स्थिरन्यासबलात् एकं स्थिरं निवेश्य तदवष्टम्भेन । इतरचालनक्रमेणेत्यर्थः । कथमपि महता प्रयत्नेन । 'कथमादि तथाप्यन्तं यत्नगौरवभेदयोः' इत्युत्पलः । चलद्भिश्चरणोत्पलैः ॥ ६७ ॥

 मुहुरिति वनविभ्रमाभिषङ्गादतमि तदा नितरां नितम्बिनीभिः ।
 मृदुतरतनवोऽलसाः प्रकृत्या चिरमपि ताः किमुत प्रयासभाजः ६८

 मुहुरिति ॥ नितम्बिनीभिरुक्तधर्मोपलक्षिताभिः स्त्रीभिर्मुहुरित्येवं वनविभ्रमाभिषङ्गात् वनभ्रमणासङ्गात् तदा नितरामतमि तान्तम् । तमेर्ण्यन्ताद्भावे लुङ् 'नोदात्तोपदेशस्य मान्तस्यानाचमेः' (७।३।३४) इति वृद्धिप्रतिषेधः । युक्तं चैतदित्याह-मृदुतरतनवोऽतिकोमलाङ्गयस्ताः स्त्रियः प्रकृत्या अलसा जडाः, अथ चिरमपि प्रयासभाजश्चेत् किमुत । सुतरामलसाः स्युरित्यर्थः । अत्राप्रकृतनैसर्गिकालस्यस्य कथनेनागन्तुकस्य कैमुत्यन्यायतः सिद्धत्ववर्णनादर्थापत्तिरलंकारः । 'एकस्य वस्तुनो भावाद्यत्र वस्त्वन्यदापतेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलंक्रिया ॥' इति लक्षणात् । श्रमश्चात्र संचारी वाच्यः । 'श्रमः खेदोऽध्वरत्यादेः स्वेदोऽस्मिन्मर्दनादयः' (दशरूपके ४।१२) इति लक्षणात् ॥ ६८ ॥

 अथ श्रमानुभावं स्वेदं वर्णयति-

 प्रथममलघुमौक्तिकाभमासीच्छ्रमजलमुज्ज्वलगण्डमण्डलेषु ।
 कठिनकुचतटाग्रपाति पश्चादथ शतशर्करतां जगाम तासाम् ॥६९।।

 प्रथममिति ॥ अथ तासां स्त्रीणां श्रमजलं प्रथममुज्ज्वलगण्डमण्डलेषूज्ज्वलगण्डस्थलेषु अलघुमौक्तिकाभं स्थूलमुक्ताफलसदृशमासीत् । पश्चात् कठिनतरकुचाग्रपाति सत् अथ पतनानन्तरं शतं शर्कराः शतशर्करम् । 'समाहारे द्विगुरेकवचनं वा टाबन्ते' इति नपुंसकत्वम् । तस्य भावस्तत्ता तां शतशर्करतां शतशकलत्वं जगाम । अत्रैकस्य श्रमजलस्य क्रमेणानेकाश्रयसंबन्धनिबन्धनात् पर्यायालंकारभेदः । 'क्रमेणैकमनेकस्मिन्नाधारे वर्तते यदि एकस्मिन्नथ वानेकं पर्यायालंकृतिर्मता ॥' इति लक्षणात् ॥ ६९ ॥

 श्रमेऽपि कुचमण्डलमविकृतशोभमित्याह-

 विपुलकमपि यौवनोद्धतानां घनपुलकोदयकोमलं चकाशे ।
 परिमलितमपि प्रियः प्रकामं कुचयुगमुज्ज्वलमेव कामिनीनाम् ७०

 विपुलकमिति ॥ यौवनोद्धतानां कामिनीनां कुचयुगं विपुलकं पुलकरहित-