पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८४
शिशुपालवधे

'हलदन्तात्-'(६।३।९) इत्यादिना सप्तम्या अलुक् । तेषां पाशः कलापः श्लथस्य तस्य यः पातस्तस्य भारादिवेति हेतूत्प्रेक्षा। 'न पादादौ खल्वादयः' इति वामनीयनिषेधेऽपि इवशब्दस्य पादादौ प्रयोगः कवेरौद्दण्ड्यात् । नितरामतिशयेन । अव्ययादामुप्रत्ययः । नतिमद्भिरंसभागैरुपलक्षिताभिर्नितम्बिनीभिरिति भाविना संबन्धः । एवमुत्तरत्रापि योज्यम् । नतांसत्वमुत्तमस्त्रीलक्षणात् । पुनर्घनमहतां सान्द्रदीर्घाणां पक्ष्मणां भरेणेवेति पूर्ववद्धेतूत्प्रेक्षा । मुकुलितनयनैर्मुखारविन्दैः । अत्रोत्प्रेक्षयोः संसृष्टिः॥६२ ॥

 अधिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरश्मिजालैः ।
 परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥६३॥

 अधिकमिति ॥ पुनः परिचितानां प्रणयिनां परिचुम्बनैरभियोगान्मर्दनादपगतकुङ्कुमरेणुभिः अत एव विकसन्ति वैमल्यात्प्रतिफलन्ति अशीतमरीचेरुष्णांशो रश्मिजालानि येषु तैः । असंबन्धे संबन्धोक्त्यातिशयोक्तिः । अत एवाधिकमरुणिमानमुद्वहद्भिः । कुङ्कुमापायेऽप्यातपलङ्घनादतिलोहितैरित्यर्थः । कपोलैर्गण्डस्थलैः ॥ ६३॥

 अवसितललितक्रियेण बाह्वोर्ललिततरेण तनीयसा युगेन ।
 सरसकिसलयानुरञ्जितैर्वा करकमलैः पुनरुक्तरक्तभाभिः॥६४॥

 अवसितेति ॥ पुनरवसिताः श्रमेण परिसमाप्ता ललिताः क्रियाः सुकुमारचेष्टा अपि यस्य तेन ललिततरेण मृदुतरेण तनीयसा तनुतरेण बाह्वोर्युगेन पुनः सरसैरार्द्रैः किसलयैरनुरञ्जितैर्वा अनुरञ्जनं प्रापितैरिव पुनरुक्ता द्विगुणा रक्ता भासो येषां तैः पुनरुक्तरक्तभाभिः। 'हलि सर्वेषाम्' (८।३।२२) इति यकारलोपः। करकमलैः पाणिपङ्कजैः । अत्रेतरजनकरापेक्षया पुनरुक्तरक्तत्वं स्वाभाविकमेव । तत्र किसलयरञ्जनहेतुकत्वमुत्प्रेक्ष्यते । इवार्थे वाशब्दस्तदुत्प्रेक्षायां प्रयुक्तः ॥ ६४ ॥

 सरसरसमुरःस्थलेन पत्युर्विनिमयसंक्रमिताङ्गरागरागैः ।
 भृशमतिशयखेदसंपदेव स्तनयुगलैरितरेतरं निषण्णैः ॥६५॥

 स्मरेति ॥ पुनः स्मरेण सरसं सानुरागं यथा तथा पत्युरुरःस्थलेन कर्त्रा विनिमयेन व्यतिहारेण संक्रमितोऽङ्गरागोऽनुलेपनं तेन रागो रञ्जनं येषु तैः अतिशयोऽतिशयितो यः खेदस्तस्य संपदा महिम्नेवेत्युत्प्रेक्षा । भृशमितरेतरं निषण्णैः परस्परं संश्रितैः स्तनयुगलैः ॥ ६५ ॥

 अतनुकुचभरानतेन भूयः श्रमजनितानतिना शरीरकेण ।
 अनुचितगतिसादनिःसहत्वं कलभकरोरुभिरूरुभिर्दधानः ॥६६॥

 अतन्विति ॥ पुनः अतनुना महता कुचभरेणानतेन नम्रेण । प्रागेवेति भावः । भूयः पुनश्च श्रमजनिता आनतिर्यस्य तेन शरीरकेण सुकुमारशरीरेण । किंच अनुचिताऽनभ्यस्ता । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । तया गत्या पादचारेण यः सादः कार्श्यं तेन यन्निःसहत्वमक्षमत्वं तद्दधानैः । गन्तुमक्षमैरित्यर्थः ।

पाठा०-१ 'विलसित०".