पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८३
सप्तमः सर्गः ।

संस्कारभावं द्योतयति । तेनाप्याहता अमूर्च्छत् । यदुच्चारणपूर्वकं कुसुमताडनमपि मारकं सोऽभिचारमन्त्र एव सत्यम् । अन्यथा केवलकुसुमेऽपि तत्प्रसङ्गादित्यर्थः ॥ ५८॥

 समदनमवतंसितेऽधिकर्णं प्रणयवता कुसुमे सुमध्यमायाः ।
 व्रजदपि लघुतां बभूव भारः सपदि हिरण्मयमण्डनं सपत्न्याः ५९

 समदनमिति ॥ प्रणयवता प्रियेण सुमध्यमायाः प्रियाया अधिकर्णं कर्णे । विभक्त्यर्थेऽव्ययीभावः । कुसुमे समदनं यथा तथा अवतंसितेऽवतंसीकृते सति सपदि लघुतां हीनतामगुरुत्वं च व्रजदपि समान एकः पतिर्यस्यास्तस्याः सपत्न्याः । 'नित्यं सपत्नयादिषु' (४।१।३५) इति ङीष् नकारश्च । तस्मादेव निर्देशात् समानशब्दस्य सभावनिपातः । हिरण्यस्य विकारो हिरण्मयम्। 'दाण्डिनायन-' (६।४।१७४) इत्यादिना निपातः । तन्मण्डनं भारो बभूव । यत्किंचिदपि प्रेम्णा कान्तेन स्वहस्तदत्तं श्लाघ्यं मण्डनं भवति अन्यन्महार्घमपि हीनं भारश्च । न तु मण्डनमित्यर्थः । लघुगुरुत्वगुणविरोधस्य हीनार्थत्वेन परिहाराद्विरोधाभासभेदः ॥ ५९ ॥

 अवजितमधुना तवाहमक्ष्णो रुचिरतयेत्यवनम्य लज्जयेव ।
 श्रवणकुवलयं विलासवत्या भ्रमररुतैरुपकर्णमाचचक्षे ॥ ६० ॥

 अवजितमिति ॥ विलासवत्याः स्त्रियः श्रवणकुवलयं श्रवणोत्पलं कर्तृ अहमधुना तवाक्ष्णो रुचिरतया रुचिरस्य भावो रुचिरता । भावे तल् । तया सौन्दर्येणावजितमिति वक्तव्यानुवादः । अत एव लज्जयावनम्य भ्रमररुतैः । तन्मिषेणेत्यर्थः । उपकर्णं कर्णे । विभक्त्यर्थेऽव्ययीभावः । आचचक्ष इवेत्युप्रेक्षा ॥ ६० ॥

 अवचितकुसुमा विहाय वल्लीर्युवतिषु कोमलमाल्यमालिनीषु ।
 पदमुपदधिरे कुलान्यलीनां न परिचयो मलिनात्मनां प्रधानम् ६१

 अवचितेति ॥ अलीनां कुलानि अवचितानि युवतिभिरुपात्तानि कुसुमानि यासां ताः । रिक्ता इत्यर्थः । वल्लीः पुष्पलता विहाय । कोमलानि माल्यानि मलन्ते धारयन्तीति तासु कोमलमाल्यमालिनीषु । 'मल मल्ल धारणे' इति धातोणिनिः 'ऋन्नेभ्यो ङीप्' (४।१।५) युवतिषु पदमुपदधिरे निदधुः । तथा हि मलिनात्मनां कृष्णदेहानां, दुष्टचित्तानां च परिचयश्चिरकालसाहचर्यं न प्रधानं न प्रयोजकं, किंतु भुक्तिरेवेति भावः । अतः परिचितलतात्यागो नाश्चर्यमित्यर्थः । अत्र मलिनात्मनामिति कृष्णाङ्गत्वस्य दुष्टचित्तत्वेन सहाभेदाध्यवसायेनार्थान्तरन्यासस्योत्थापनात् श्लेषप्रतिभोत्थापितातिशयोक्त्यनुप्राणितोऽयमिति संकरः ॥ ६१ ॥

 अथोत्तरसर्गे जलक्रीडावर्णनाय तदुपोद्घातत्वेनासां वनविहारोद्भवं श्रमातिरेकं सप्तभिः कुलकेन दर्शयति-

 श्लथशिरसिजपाशपातभारादिव नितरां नतिमद्भिरंसभागैः।
 मुकुलितनयनैर्मुखारविन्दैर्धनमहतामिव पक्ष्मणां भरेण ।। ६२ ॥

 श्लथेत्यादि ॥ शिरसि जाताः शिरोरुहाः । 'सप्तम्यां जनेर्डः' (३।२।९७)