(३।३।५८) इत्यप्प्रत्ययः । तत्परया तदासक्तया सत्या । कंचिव्द्यासङ्गं कल्पयन्त्ये. त्यर्थः । न विविदे अपि किल । न प्रकाशितमिति किमुत वक्तव्यमित्यपिशब्दार्थः । किलेत्यलीके । वस्तुतो विदित्वाप्यविदित्वेव स्थितं वैदग्ध्यात् । अन्यथा तयोर्वि- श्रम्भविहारविघातादिति भावः । मुग्धेयं नायिका । 'उदयद्यौवना मुग्धा लज्जापि- हित1मन्मथा' इति लक्षणात् ॥ ४४ ॥
व्रततिविततिभिस्तिरोहितायां प्रतियुवतौ वदनं प्रियः प्रियायाः ।
यदधयदधरावलोपनृत्यत्करवलयस्खनितेन तद्विवव्रे ॥ ४५ ॥
व्रततीति ॥ प्रतिकूला युवतिः प्रतियुवतिः सपत्नी तस्यां व्रततिविततयो, लताजालानि । 'वल्ली तु व्रततिर्लता' इत्यमरः । ताभिस्तिरोहितायां सत्यां प्रियः प्रियाया वदनमधयदपिबदिति यत् । धेटो भौवादिकाल्लङ् । तद्दनपानमधराव- लोपेनाधरखण्डनेन । तज्जनितव्यथयेत्यर्थः । नृत्यतोश्चलतोः करयोर्वलयानां कङ्क- णानां स्वनितेन ध्वनिना विवव्रे विवृतम् । तदेव तस्यास्तदनुमापकमभूदित्यर्थः । अत्रैका हृष्टा अपरा त्वीया॑निर्वेदवतीत्यनुसंधेयम् ॥ ४५ ॥
विलसितमनुकुर्वती पुरस्ताद्धरणिरुहाधिरुहो वधूर्लतायाः ।
रमणमृजुतया पुरः सखीनामकलितचापलदोषमालिलिङ्ग॥४६॥
विलसितमिति ॥ वधूः काचित् स्त्री पुरस्तादग्रे धरणिरुहमधिरोहतीति धर- णिरुहाधिरुट् वृक्षाधिरूढा । रुहेः क्लिप् । तस्या लताया विलसितं चेष्टितम् । भावे क्तः । अनुकुर्वती एवमित्याश्लेषप्रकारमभिनयन्ती ऋजुतया अकुटिलबुद्धितया सखीनां पुरोऽग्रे अकलितोऽविचारितश्चापलमनुचितकरणमेव दोषो यस्मिन्कर्मणि तद्यथा तथा रमणं प्रियमालिलिङ्ग । एषा हर्षौत्सुक्यवती प्रौढा च ॥ ४६ ॥
सललितमवलम्ब्य पाणिनांसे सहचरमुच्छ्रितगुच्छवाञ्छयान्या ।
सकलकलभकुम्भविभ्रमाभ्यामुरसि रसादवतस्तरे स्तनाभ्याम् ४७
सललितमिति ॥ अन्या स्त्री उच्छ्रितगुच्छवाञ्छया उन्नतस्तबकजिघृक्षया सललितं सविलासं यथा तथा सहचरं प्रियं पाणिना । औचित्याद्वामेनेति शेषः । अंसेऽवलम्ब्यावष्टभ्य सकलयोः समग्रयोः कलभकुम्भयोः करिकुम्भयोर्विभ्रम इव विभ्रमः सौन्दर्य ययोस्ताभ्यां स्तनाभ्यां रसाद्रागादुरस्यवतस्तरे आच्छादयामास । सहचरमित्यनुषङ्गः । अभिमुखावस्थानादिति भावः । स्तृणातेः कर्तरि लिट् । 'ऋतश्च संयोगादेर्गुणः' (७।४।१०) 'शर्पूर्वाः स्वयः' (७/४।६१) इत्यभ्यास: सकारलोपश्च । इयं च प्रौढैव ॥ ४७ ॥
मृदुचरणतलाग्रदुःस्थितत्वादसहतरा कुचकुम्भयोर्भरस्य ।
उपरि निरवलम्बनं प्रियस्य न्यपतदथोचतरोचिचीषयान्या ॥४८॥
मृद्विति ॥ अन्या स्त्री उच्चतराणामत्युन्नतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया । चिनोतेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । 'विभाषा चेः' (७॥ ३।५८) इति कुत्वविकल्पः । मृदुचरणतलाग्रेण दुःस्थितत्वादुःखेन स्थितत्वात् कुचकुम्भयोर्भरस्य 'पुंसि संज्ञायां घः प्रायेण' (३।३।११८) इति घप्रत्ययः ।
पाठा०-१ 'विदित.'