पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७८
शिशुपालवधे

बहुव्रीह्यर्थो लक्ष्यः मुख्यो वा । महाकविप्रयोगबाहुल्यात् । अव्ययीभावदर्शनं तु प्रायिकमित्युक्तं प्राक् । तथा च सरजसं सरजसो वा यो मकरन्दुस्तेन निर्भरासु पूर्णासु । न तु त्वदधरामृतेन नाप्यरजस्केनेति भावः । अन्यत्र रजः स्त्रीपुष्पम् , 'स्याद्रजः पुष्पमार्तवम्' इत्यमरः । तत्साहचर्यान्मकरन्दशब्देन शुक्रप्रतीतिः । तेन शुक्रशोणितसंनिपातप्रायास्वित्यर्थः । प्रसवविभूतिषु पुष्पसमृद्धिषु जन्मपरम्परासु च विरक्तः निस्पृहः सन अमृतं पिबतीति अमृतप इति नाम्नो वाञ्छया असावमुं तवाधरमोष्टं प्रति आजिहीते आगच्छति । ध्रुवं सत्यमित्युत्प्रेक्षायाम् । अन्यत्र तु अमृतपो देव इति नामवाञ्छया । देवभूयापेक्षयेत्यर्थः । अथवा । निःश्रेयसप्रा- प्तीच्छयेत्यर्थः । श्रेयो निःश्रेयसामृतम्' इत्यमरः । ध्रुवं शाश्वतं अधरं धरासंब- न्धरहितममुं परलोकपथम् । शुभमिह चामुत्र चान्वेतीत्यादौ लोके वेदे चेदमद- सोर्लोकद्वये रूढिप्रदर्शनात् । आजिहीते अन्विष्यतीत्यर्थः । 'ओहाङ् गतौ' इति धातोर्लटि 'श्लौ' (६।१।१०) इति द्विर्भावः । “ई हल्यघोः' (६।४।११३) इतीकारः । इह नायिकावदनसौरभहेतुकस्य मधुपानामागमनस्यामृतपानमवाञ्छा. हेतुकत्वोत्प्रेक्षणाद्गुणहेतूप्रेक्षा । सा च ध्रुवमिति व्यञ्जकाप्रयोगाद्वाच्या सती मधुप- स्याधारोद्देशस्यासंबन्धेऽपि संबन्धाभिधानादतिशयोक्त्युत्थापितेति संकरः। पूर्वो- क्ताप्रकृतार्थप्रतीतिस्तु मधुपादिशब्दानामभिधया प्रकृतार्थनियन्त्रितत्वाच्छब्दशक्ति- मूलो ध्वनिरेव न श्लेष इत्यलं विस्तरेणेति ॥ ४२ ॥

 इति वदति सखीजने निमीलद्विगुणितसान्द्रतराक्षिपक्ष्ममाला ।
 अपतदलिभयेन भर्तुरङ्कं भवति हि विक्लवता गुणोऽङ्गनानाम् ४३
         (विशेषकम् ।)

 इतीति ॥ इतीत्थं सख्येव जनस्तस्मिन् सखीजने वदति सति निमीलन्त्यौ भया- न्मुकुलीभवन्त्यौ अत एव द्वे आवृत्ती ययोस्ते द्विगुणे द्विरावृत्ते । 'गुणास्त्वावृत्ति- शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । ते कृते द्विगुणिते अत एव सान्द्रतरे अक्षिपक्ष्ममाले नेत्रलोमपङ्क्ती यस्याः सा । काचिदिति शेषः । अक्षिग्रहणस्य पक्ष्मद्वयद्वैगुण्यलक्ष्मीरक्ष्णोरेवेति द्योतनार्थत्वान्न पौनरुक्त्यम् । अलिभयेन भर्तु- रङ्कमुत्सङ्गमपतत् प्राप्तवती । अहो महत्कष्टं यत्कीटकादपि भयमित्याशङ्क्याह-अङ्ग- नानाम् । न तु पुंसामिति भावः । विक्लवता भीरुता गुणो भवति हि । न तु दोष इति भावः । अत एव जनसमक्षं भर्तुरङ्कारोहणमपि न दोषः । पार्श्वस्थाल- म्बनादीनां भयानुभावत्वात् । कुलकेऽलंकारोऽयमर्थान्तरन्यासः ॥ ४३ ॥

 मुखकमलकमुन्नमय्य यूना यदभिनवोढवधूर्बलादचुम्बि ।
 तदपि न किल बालपल्लवाग्रग्रहपरया विविदे विदग्धसख्या ४४

 मुखेति ॥ यूना अभिनवोढवधूर्नवोढाङ्गनापि बलाद्बलात्कारात् । मुखं कमल- मिवेत्युपमितसमासः। तदल्पं मुखकमलकम् । अल्पार्थे कन्प्रत्ययः । उन्नमय्योद्यम्य । 'ल्यपि लघुपूर्वात्' (६।४।५६) इत्ययादेशः । अचुम्बि चुम्बितेति यत् तच्चुम्बन

विदग्धसख्या चतुरसख्या बालपल्लवाग्राणां ग्रहो ग्रहणम् । 'ग्रहवृदृनिश्चिगमश्च'