पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
सप्तमः सर्गः ।

ङ्गस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दयितैः दयिताभिः दयितैश्च । 'पुमान्स्त्रिया' (१/२।६७) इत्येकशेषः । प्रणिदधिरे प्रणिहिताः । लिखिता इत्यर्थः । दधाते: कर्मणि लिट् । 'नेर्गदनद- (८/४/१७) इत्यादिना नकारस्य णत्वम् । लोकप्रसि- द्धलेख्यवैलक्षण्याव्द्यतिरेकालंकारः ॥ ३९ ॥

 कृतकृतकरुषा सखीमपास्य त्वमकुशलेति कयाचिदात्मनैव ।
 अभिमतमभि साभिलाषमाविष्कृतभुजमूलमबन्धि मूर्ध्नि माला ४०

 कृतेति ॥ कृतकृतकरुषा कृतकृत्रिमरोषया कयाचिन्नायिकया त्वमकुशला माल्य- ग्रथने कुशला नासीति सखीमपास्य निरस्यात्मना स्वयमेवाभिमतमभिप्रायाभि- मुखं साभिलाषमाविष्कृतभुजमूलं प्रकाशितकक्षप्रदेशं यथा तथा मूर्ध्नि माला अबन्धि बद्धा । अयं च स्वाभिप्रायव्यञ्जकचेष्टारूपश्चापलाख्यः संचारिविशेषः । नायिका प्रौढैव । 'स्मरमन्दीकृतव्रीडा प्रौढा संपूर्णयौवना' इति लक्षणात् ॥ ४० ॥

 अथ कांचिन्नायिकां प्रति सखीवचनं विशेषकेणाह-

 अभिमुखमुपयाति मा स्म किंचित्त्वमभिदधाः पटले मधुव्रतानाम् ।
 मधुसुरभिमुखाजगन्धलब्धेरधिकमधित्वदनेन मा निपाति ॥४॥

 अभिमुखमिति ॥ मधु मकरन्दं व्रतयन्ति भुञ्जत इति मधुव्रता मधुपाः । कर्मण्यण्प्रत्ययः । तेषां पटले अभिमुखमुपयाति आगते सति त्वं किंचिन्मा स्माभि- दधा न किंचिदालप । मौनं भजेत्यर्थः । 'स्मोत्तरे लङ् च' (३।३।१७६) 'न माङयोगे' (६।४।७४) इत्यट्प्रतिषेधः । मौनस्य मधुकरबाधानिवृत्तिरेव फलमि- त्याह-मध्विति । मधुना मद्येन सुरभेर्मुखाङास्य यो गन्धस्तस्य लब्धेर्लाभात् । 'स्त्रियां क्तिन्' (३।३।९४) अनेन मधुव्रतपटलेन अधित्वत् त्वयि । विभक्त्यर्थेऽ- व्ययीभावः । त्वमावेकवचने' (७।२।९७) इत्यत्रैकवचन इत्यर्थनिर्देशादिह विभक्त्यभावेऽप्येकार्थवृत्तेर्युष्मदो मपर्यन्तस्य त्वादेशः । अत एव विभक्त्यभावाच्च त्वादेशोऽत्र चिन्त्य इति वल्लभवचनं *चिन्त्यम् । अधिकमत्यन्तं सर्वत्रेत्यर्थः । मा निपाति मा निपत्यताम् । भावे लुङि चिण्वद्वृद्धिः । अत्र निपातासंबन्धेऽपि तत्सं- बन्धोक्तेरतिशयोक्तिरलंकारः ॥४१॥

 सरजसमकरन्दनिर्भरासु प्रसवविभूतिषु भूरूहां विरक्तः ।
 ध्रुवममृतपनामवाञ्छयासावधरममुं मधुपस्तवाजिहीते ॥ ४२ ॥

 सरजसेति ॥ किंच मधु पिबतीति मधुपो मधुलिट्, मद्यपश्च । 'आतोऽनुपसर्गे कः' (३।२।३) भुवि रोहन्ति जायन्त इति भूरुहां भूरुहाणां भौमानां च देहिनां संबन्धिनीषु सह रजसा सरजसम् । अव्ययम्' (२॥१॥६) इत्यादिना साकल्यार्थे. ऽव्ययीभावः । 'अचतुर-' (५।४।७७) इति समासान्तनिपातः। तेन सरजस्क इति [* अर्थनिर्देशस्यातित्वानित्याद्यर्थमङ्गीकारेऽपि 'प्रत्ययोत्तरपदयोश्च' (७।२।९८) इत्यत्रो- त्तरपदग्रहणसामर्थ्याद्विभक्तिपरकत्वस्यापि निमित्तत्वेनात्राव्ययीभावत्वेनाव्ययत्वाद्विभक्ते का लुप्तत्वेन 'न लुमता-' (१।१।६३) इत्यनेन प्रत्ययेन प्रत्ययलक्षणप्रतिषेधाद्विभक्तिपरत्वा- भावेनादेशश्चिन्त्य एवातो वल्लभोक्ती रम्यैव। कविना तु विभक्तिप्रतिरूपकत्वच्छब्देन युष्मत्समानार्थकेन समासोऽङ्गीकृत इति प्रतिभाति । ] पाठा०-१ -'अचतुर-

(५।४।७७ ) इत्यादिना साकल्यार्थेऽव्ययीभावः समासान्तनिपातः".