पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७६
शिशुपालवधे

प्रतिस्थानं संयमितेन नियमितेनांशुकेन । 'अंशुकं सूक्ष्मवस्त्रे स्यात्' इति विश्वः । वस्त्रेणावृतमङ्गं यस्याः सा तथोक्ता सती ॥ ३६ ॥

 कृतभयपरितोषसंनिपातं सचकितसस्मितवक्रवारिजश्रीः ।
 मनसिजगुरुतत्क्षणोपदिष्टं किमपि रसेन रसान्तरं भजन्ती ॥३७॥

 कृतभयेति ॥ किंच कृतः भयपरितोषयोः भर्तृदर्शनोत्थसाध्वसहर्षयोः संनि- पातः संकरो येन तत् । मनसि जातो मनसिजः स्मरः । 'सप्तम्यां जनेर्ड:' (३।२।९७) । 'हलदन्तात्सप्तम्याः संज्ञायाम्' (६।३।९) इत्यलुक् । स एव गुरुराचार्य स्तेन तत्क्षणे उपदिष्टम् । तदेकहेतुकमित्यर्थः । किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिंचिताख्यं विवक्षितम् । कृतभयेत्यादिविशेषणेन क्रोधाश्रुहर्षभीत्यादेः संकरः । किलकिंचितमिति लक्षणार्थस्य प्रतीतेः । रसेन रागेण हेतुना भजन्ती अत एव सचकिता सभयसंभ्रमा । 'चकितं भयसंभ्रमः' इत्यमरः । सस्मिता हर्षात् समन्दहासा वक्रवारिजश्रीर्यस्याः सा सती । अत्र चकितस्मितयोः पूर्वोक्तभयहर्षानुभावत्वेनोक्तिः ॥ ३७ ॥

 अवनतवदनेन्दुरिच्छतीव व्यवधिमधीरतया यदस्थितास्मै ।
 अहरत सुतरामतोऽस्य चेतः स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥३८॥
         (षड्भिः कुलकम् ।)

 अवनतेति ॥ अवनतवदनेन्दुः । लजया नम्रमुखीत्यर्थः । अधीरतया अधृष्ट- तया व्यवधिं किंचिव्ध्यवधानम् । 'उपसर्गे घोः किः' (३।३।९२) इति किप्र- त्ययः । इच्छती वाञ्छन्तीव । तथा व्याकुला सतीत्यर्थः । 'आच्छीनद्योर्नुम्' (७।१।८०) इति विकल्पान्नुमभावः । अस्मै प्रियाय अस्थित । आत्मानं प्रकाश- यन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुङ् । 'प्रकाशनस्थेयाख्ययोश्च' (1/३।२३) इत्यात्मनेपदं 'स्थाध्वोरिच' (१।२।१७) इति सिचः कित्त्वमिकारश्च धातोरन्ता- देशः कित्त्वान्न गुणः । इति यदतो हेतोरस्य प्रियस्य चेतः सुतरामहरत । तथा हि-त्रपैव स्त्रियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि त्रपाभूषितत्वादतिमनोहरत्वं युक्तमिति भावः । कुलकार्थान्तरन्यासौ । मध्या चेयं नायिका । 'लज्जामन्मथमध्यस्था मध्यमोदितयौवना' इति लक्षणात् ॥ ३८॥

 किसलयशकलेष्ववाचनीयाः पुलकिनि केवलमङ्गके निधेयाः ।
 नखपदलिपयोऽपि दीपितार्थाः प्रणिदधिरे दयितैरनङ्गलेखाः॥३९॥

 किसलयेति ॥ किसलयशकलेषु । वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलक्षण्याद्वाचयितुमनर्हाः किंतु केवलं पुलकिनि दयितस्पृष्टत्वात्तत्स्प- र्शादेव रोमाञ्चवत्यङ्गके वपुषि निधेया विरहतापशान्त्यर्थमर्पणीयाः । कुतः । नख- पदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते न तु प्रसिद्धाक्षराः । अतोऽवाचनीया इत्यर्थः । नैतावतानुतापकारित्वं चेत्याह-तथापि दीपितार्थाः संकेतितसंनि-

वेशवशादेव घोतिताभिधेया लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अन-