पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
सप्तमः सर्गः ।

 अथापरस्याश्चेष्टाविशेष षड्भिः कुलकेनाह-

 विततवलिविभाव्यपाण्डुलेखाकृतपरभागविलीनरोमराजिः।
 कृशमपि कृशतां पुनर्नयन्ती विपुलतरोन्मुखलोचनावलग्नम् ॥३३॥

 विततेत्यादि ॥ काचिद्वितताभिर्गात्रोन्नमनाद्विश्लिष्टाभिर्वलिभिस्त्रिवलिभि- र्विभाव्याः संलक्ष्याः पाण्डुलेखा रेखाकारा वलित्रयान्तरालभागास्ताभिः कृत- परभागा जनितवोत्कर्षाः अत एव विशेषेण लीना विलीना रोमराजिर्यस्याः सा तथोक्ता । कृशमपि । स्वभावत एवेति भावः । अवलग्नं मध्यम् । 'मध्यमं चाव- लग्नं च मध्योऽस्त्री' इत्यमरः । पुनः कृशतां नयन्ती । अग्रपुष्पग्रहणाय गात्रवि- जृम्भणादिति भावः । तथा विपुलतरे उन्मुखे ऊर्ध्वमुखे च लोचने यस्याः सा । अग्रपुष्पग्रहणार्थमिति भावः ॥ ३३ ॥

 प्रसकलकुचवन्धुरोद्घु रोरःप्रसभविभिन्नतनूत्तरीयबन्धा।
 अवनमदुदरोच्छ्वसद्दुकूलस्फुटतरलक्ष्यगभीरनाभिमूला ॥ ३४ ॥

 प्रसकलेति ॥ प्रसकलाभ्यामतिसमग्राभ्यां कुचाभ्यां बन्धुरमुन्नतानतम् । 'बन्धुरं तून्नतानतम्' इत्यमरः । उडुरं निर्भरम् । दृढमिति यावत् । 'ऋक्पूर्-' (५।४/७४) इत्यादिना समासान्तः । तस्मादुरसः प्रसभाद्वलात्काराद्विभिन्नो विश्लिष्टस्तनूत्तरीयबन्धो यस्याः सा । गात्रविजृम्भणाद्विस्रस्तकुचावरणेत्यर्थः । किंच अवनमतोऽन्तर्लीयमानादुदरादुच्छ्वसद्विश्लिष्यद्दुकूलं यस्य तत् अत एव स्फुटतरं यथा तथा लक्ष्यं गभीरमगाधं नाभेर्मूलमन्तरालं यस्याः सा ॥ ३४ ॥

 व्यवहित1मविजानती किलान्तर्वणभुवि वल्लभमाभिमुख्यभाजम् ।
 अधिविटपि सलीलमग्रपुष्पग्रहणपदेन चिरं विलम्ब्य काचित् ३५

 व्यवहितमिति ॥ काचित्पूर्वोक्तविशेषणविशिष्टाङ्गना अन्तर्वणभुवि वनाभ्य- न्तरप्रदेशे । 'प्रनिरन्तः-' (८।४।५) इत्यादिना वननकारस्य णत्वम् । व्यवहितं तिरोहितमाभिमुख्यभाजम् । अभिमुखावस्थितमित्यर्थः ।तं वल्लभं प्रियमविजा- नती किल जानानाप्यजानानेव अधिविटपि विटपिनि वृक्षे । विभक्त्यर्थेऽव्ययी- भावः । सलीलं यथा तथाग्रे वृक्षाग्रे यानि पुष्पाणि तेषां ग्रहणस्य पदेन मिषेण चिरं विलम्ब्य । प्रियाय स्वाङ्गप्रकाशनार्थमिति भावः ॥ ३५॥

 अर्थ किल कथिते सखीभिरत्र क्षणमपरेव ससंभ्रमा भवन्ती ।
 शिथिलितकुसुमाकुलाग्रपाणिः प्रतिपदसंयमितांशुकावृताङ्गी ॥३६॥

 अथेति ॥ अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति किलायमत्रैवास्त इति निवेदिते सति क्षणं ससंभ्र मा अपरेव पूर्वविपरीतव्यापारकारणा- दन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चयन्तीत्यर्थः । शिथिलितः पुष्प- ग्रहणान्निवर्तितः कुसुमाकुलः कुसुमव्याहतोऽग्रपाणिर्यया सा तथोक्ता प्रतिपदं

पाठा०-१०मिव'.