पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
शिशुपालवधे

न सहतेऽत्यन्तमित्यसहतरा । सहेः पचाद्यजन्तान्नन्समासात्तरप्प्रत्ययः । भरमस- हमानेत्यर्थः । कृद्योगात्कर्मणि षष्ठी । अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वान्निपपातेत्यर्थः । एषा च प्रौढा । स्वभावो- क्तिरलंकारः॥४८॥

 उपरिजतरुजानि याजमानां कुशलतया परिरम्भलोलुपोऽन्यः ।
 प्रथितपृथुपयोधरां गृहाण स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ४९

 उपरिजेति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुसुमानि तानि याचमानां अपचित्य देहीति प्रार्थयमानां प्रथितपृथुपयोधरां प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं स्त्रियं परिरम्भलोलुप आश्लेपलालसोऽन्यः कुशलतया वञ्च- नापटुतया स्वयं गृहाण । त्वमेवापचिनुष्वेत्यर्थः । इति गम्यमानार्थत्वादुक्त्वेति न प्रयुक्तं पौनरुक्त्यात् । दोर्भ्यामुदास उद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलना- यकः । नायिका तु स्वाधीनपतिका प्रौढा च ॥ ४९॥

 इदमिदमिति भूरुहां प्रसूनैर्मुहुरतिलोभयता पुरःपुरोऽन्या ।
 अनुरहसमनायि नायकेन त्वरयति रन्तुमहो जनं मनोभूः ॥५०॥

 इदमिदमिति ॥ अन्या स्त्री इदमिदमिति । इदं ग्राह्यमिदं ग्राह्यमित्युक्त्वे- त्यर्थः । भूरुहां वृक्षाणां प्रसूनैः पुष्पैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नायकेन रहोऽनु अनुरहसमेकान्तम् । 'अन्ववतप्तात्-' (५।४।८१) इत्यव्ययी- भावः समासान्तः । अनायि नीता । तथा हि-मनोभूः कामो जनं रन्तुं त्वर- यति । देशकालानपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिका- नायकविवेकः । अर्थान्तरन्यासः ॥ ५० ॥

 विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकेऽन्या।
 अभिपतितुमना लघुत्वभीतेरभवदमुञ्चति वल्लभेऽतिगुर्वी ॥५१॥

 विजनमिति ॥ अन्या स्त्री विजनमेकान्तमिति हेतोरमुं वल्लभं क्षणं बलाद्गृहीत्वा आकृष्य अथान्तिके विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभीतेस्तुच्छत्वभयादभिपतितुं मनो यस्याः सा अभिपतितुमनाः । 'तुं काममनसोरपि' इति मकारलोपः । अप- सर्तुकामेत्यर्थः । वल्लभे अमुञ्चत्यत्यजति सति । तस्य विपक्षानवेक्षणादिति भावः । अतिगुर्व्यतिगौरववत्यभवत् । स्वयंग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्यवतां सर्वं श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भैव ॥ ५१ ॥

 अधिरजनि जगाम धाम तस्याः प्रियतमयेति रुषा स्रजावनद्धः ।
 पदमपि चलितुं युवा न सेहे किमिव न शक्तिहरं ससाध्वसानाम् ५२

 अधीति ॥ अधिरजनि रजन्याम् । विभक्त्यर्थेऽव्ययीभावः । तस्याः । सपत्नया इत्यर्थः । बुद्धिस्थत्वान्नामग्रहणासहत्वाच्च तच्छब्देन निर्देशः । धाम गृहं जगामेति रुषा हेतुना प्रियतमया कर्त्र्या स्रजा कारणेनावनद्धो युवा पदमपि । अत्यन्तसंयोगे द्वितीया । चलितुं न सेहे न शशाक । तथा हि-ससाध्वसानां भयग्रस्तानां किमिव

किं वा । इवशब्दो वाक्यालंकारे। इवेतीषदर्थोपमोत्प्रेक्षावाक्यालंकारेष्विति गण-