पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६८
शिशुपालवधे

मया सततं सदा ते तव । कर्मणि षष्ठी । अनभिभाषणमसंभाषणं परिपणितं भवतीति 'भातेर्डवतुः' (उ०६३) इत्यौणादिको डवतुप्रत्ययः । 'उगितश्च' (४।१।६) इति डीप् । तस्याः संबुद्धिः हे भवति सुभगे, त्वयि तदिति तदसंभा- षणमस्त्विति विरोधनिश्चितायां निश्चितविरोधायां सत्याम् । 'वाहिताग्न्यादिषु' (२।२।३७) इति विकल्पान्निष्ठायाः परनिपातः । असुहृज्जनो विपक्षवर्गः सकामः फलितमनोरथो भवतु भवेत् । प्राप्तकाले लोट् । अस्मद्विरोधकाशिणामयमानन्द- कालः प्राप्त इत्यर्थः ॥ ९॥

 न केवलमावयोर्विरोधः प्राणहानिरपि मम स्यादित्याह-

 गतधृतिरवलम्बितुं बतासूननलमनालपनादहं भवत्याः ।
 प्रणयिनि यदि न प्रसादबुद्धिर्भव मम मानिनि जीविते दयालुः १०

 गतेति ॥ गततिरधीराऽहं भवत्यास्तवानालपनादसंभाषणात् । आलपनं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । असून् प्राणानवलम्बितुं धारयितुमनलमशक्ता । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । बतेति खेदे । अत एव हे मानिनि, प्रणयिनि प्रिये, प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नास्ति चेत्तथापि मम जीविते दयालुर्भव । 'स्पृहिगृहि-' (३।२।१५८) इत्यादिना आलुच्प्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुग्राह्य इति भावः ॥ १० ॥

 प्रियमिति वनिता नितान्तमागःस्मरणसरोषकषायितायताक्षी ।
 चरणगतसखीवचोऽनुरोधात् किल कथमप्यनुकूलयांचकार॥११॥

 प्रियमिति ॥ इतीत्थं नितान्तमागसोऽन्यासङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कषायिते आयते चाक्षिणी यस्याः सा तथोक्ता । 'निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्' इति विश्वः । वनिता नायिका चरणगतायाः पूर्वोक्तवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घना- त्किल । किलेत्यपरमार्थे । वस्तुतस्वनुरागादेवेति भावः । प्रियं कथमपि कथं चिदनुकूलयांचकाराभिमुखीचकार । अनुजग्राहेत्यर्थः । एषा खण्डिता नायिका । 'ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता' इति दशरूपकलक्षणात् (२।२५)। अत एव कविना आगःस्मरणसरोषकषायिताक्षीत्युक्तम् । एषा चासंभाषणचिन्ता- खेदाश्रुनिःश्वासाद्यनुभाववती ॥ ११ ॥

 अथ काचित्सखी कंचिदने शीघ्रगामिनं युग्मेनाह-

 द्रुतपदमिति मा वयस्य यासीननु सुतनुं परिपालयानुयान्तीम् ।
 नहि न विदितखेदमेतदीयस्तनजघनोद्वहने तवापि चेतः॥१२॥

 द्रुतेति ॥ हे वयस्य सखे, इतीत्थं द्रुतपदं शीघ्रपदक्रम यथा तथा मा यासीः मा गमः । यातेर्लुङि 'न माङयोगे' (६|४|७४) इत्यदप्रतिषेधः । अनुया- न्तीमनुगच्छतीं सुतनुं शुभाङ्गीं प्रियामनुपालय प्रतीक्षस्व । असावपि शीघ्रमायातु तत्राह-नहीति । तव चेतोऽपि एतदीयस्तनजघनोद्वहने विदितखेदमनुभूतखेदं नेति