पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
शिशुपालवधे

 कान्तेति ॥ सहत इति सहः । पचाद्यच् । स्मरस्य सहः । कामोद्दीपक इत्यर्थः । तेनासवेन तोषितः तेन स्मरसहासवतोषितेन अत एव रसहासावस्य स्त इति रसहासवता रागहास्यवता अत एव प्रेम्णा मनस्सु पुंसां चित्तेपूषितेन वसता । वसतेः कर्तरि क्तः । 'वसतिक्षुधोरिद' (७।२।५२) इतीडागमः 'गतिबुद्धि-' (१|४|५२) इत्यादिसूत्रे चकाराद्वर्तमानार्थता । कान्तैव जनस्तेन कान्ताजनेन । जातावेकवचनम् । प्रसभं रहसि बलाद्गृहीतकेशे आकृष्टशिरोरुहे रते सुरते हेमन्ते भवा हैमन्यस्तासु हैमनीष्वपि । द्वाघीयसीष्वपीति भावः। 'सर्वत्राण् च तलोपश्च' (४।३।२२) इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च ‘टिड्ढाणञ्-' (४।१।१५) इत्यादिना ङीप् । रजनीषु के युवानः शेरते स्म स्वपन्ति स्म । न केऽपीत्यर्थः । 'लट् स्मे' (३।२।११८) इति भूते लट् । एतेनातिभूमिं गतः शृङ्गार इति व्यज्यते । वसन्ततिलका वृत्तम् ॥ ७७ ॥

 अथैकेन शिशिरं वर्णयति-

  गतवतामिव विस्मयमुच्चकैरसकलामलपल्लवलीलया ।
  मधुकृतामसकृद्गिरमावली रसकलामलपल्लवलीलया॥७८॥

 गतवतामिति ॥ असकलामलपल्लवलीलया असकला असमाविकासिनोऽ- मला निर्मलाश्च ये पल्लवास्तेषां लीला तया । नृत्यरूपयेत्यर्थः । विस्मयं गतवता- मिव स्थितानामिवेत्युत्प्रेक्षा । मधुकृतां मधुकराणां संबन्धिनी लवलीषु लतावि- शेषेषु लयो लयनं स्थितिर्यस्याः सा लवलीलया आवलिः पङ्क्तिः रसकलां रसेन मध्वास्वादेन कलामव्यक्तमधुराम् । 'ध्वनौ तु मधुरास्फुटे । कलः' इत्यमरः । गिरं वाचमसकृदुच्चैरलपत् । मधुमदहेतुकस्य मधुकरालापस्य पल्लवलीलया जनितविस्म- यहेतुकत्वमुत्प्रेक्ष्यत इति गुणहेतूप्रेक्षा । द्रुतविलम्बितं वृत्तम् । ७८ ॥

  कुर्वन्तमित्यतिभरेण नगानवाचः
   पुष्पैर्विराममलिनां च न गानवाचः ।
  श्रीमान्समस्तमनुसानु गिरौ विहर्तुं
   विभ्रत्यचोदि स मयूरगिरा विहर्तुम् ॥ ७९ ।।

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
ऋतुवर्णनं नाम षष्टः सर्गः ॥ ६ ॥

 कुर्वन्तमिति ॥ इतीत्थं पुष्पैरेवातिभरेण महाभरेण तत्कृतेन वा गौरवेण नगान् वृक्षानवाञ्चन्तीत्यवाचो नम्रान् । अञ्चेरवपूर्वात् 'ऋत्विक्-' (३।२।५९) इत्या- दिना क्विन्प्रत्ययः । कुर्वन्तमलिनां गानवाचो गीतध्वनेर्झंकारस्य च न विराममवि- राममसमाप्तिं कुर्वन्तं समस्तमृतुं सर्वानृतूननुसानु । सानुष्वित्यर्थः । विभक्त्यर्थेऽ- व्ययीभावः । विभ्रति बिभ्राणे इह गिरौ रैवतकाद्रौ विहर्तुं क्रीडितुं श्रीमान् स हरिः मयूरगिरा केकया अचोदि प्रेरितः । भगवन्निह विहर ऋतुगणमनुगृहाणेति प्रार्थित इवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । वृत्तमुक्तम् ॥ ७९ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वङ्कषाख्ये षष्ठः सर्गः ॥६॥