रसभावतदाभासत्प्रकाशसमानानां निबन्धे रसवत्प्रेय ऊर्जस्विसमाहितानीति लक्षणात् । वृत्तमुपजातिः । ॥ ७४ ॥
स्तनयोः समयेन याङ्गनानामभिनद्धारसमा न सा रसेन ।
परिरम्भरुचिं ततिर्जलानामभिनद्धा रसमानसारसेन ॥ ७५ ।।
स्तनयोरिति ॥ रसमानाः कूजनशीलाः । 'ताच्छील्यवयोवचनशक्तिषु चानश्' (३।२।१२९) इति ताच्छील्ये चानश्प्रत्ययः । रसतेः परस्मैपदित्वान्न शानच्प्रत्ययः । ते सारसाः पक्षिविशेषाः यस्मिंस्तेन रसमानसारसेन समयेन । शरत्कालेनेत्यर्थः । सारसानां तत्रैव संभवात् । 'सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः' इति यादवः । अङ्गनानां स्तनयोर्या जलानां ततिः शारदोष्मजन्मा स्वेदोदबिन्दुसं- दोहः अभितो नद्धाऽभिनद्धा । नह्यतेरभिपूर्वात्कर्मणि क्तः । 'नहो धः' (८|२।३४) इति धत्वम् । हारसमा मुक्ताहारतुल्या । कुचमण्डलमण्डनायमानेति भावः । सा जलानां तती रसेन रागेण हेतुना । बलीयसेति भावः । परिरम्भरुचिमालिङ्गनेच्छां नाभिनत् न विभेद । शारदस्वेदस्याप्यालंकारतया उद्दीपकस्याजुगुप्सितत्वान्निःसपलशृङ्गारा विजयन्त इत्यर्थः । अत एव रसनिबन्धनाद्रसवदलंकारः । लक्षणमुक्तं पूर्वश्लोके । औपच्छन्दसिकं वृत्तम् ॥ ७५ ॥
जातप्रीतिर्या मधुरेणानुवनान्तं
कामे कान्ते सारसिकाकाकुरुतेन ।
तत्संपर्कं प्राप्य पुरा मोहनलीलां
कामेकान्ते सा रसिका का कुरुते न ॥ ७६ ॥
जातेति ॥ या स्त्री अनुवनान्तम् । विभक्त्यर्थेऽव्ययीभावः । मधुरेण श्राव्येण सारसिकाकाकुरुतेन सारस्य एव सारसिकाः सारसाङ्गनाः । कात्पूर्वस्येत्वम् । तासां काकुरुतेन विकृतशब्देन । 'काकुः स्त्रियां विकारो यः शोकभीत्यादिभिर्ध्वनेः' इत्यमरः । काकुश्च तद्रुतं च तेन । कामे कामकल्पे । 'सिंहो देवदत्त' इतिवद्गौण- प्रयोगः । कान्ते प्रिये जातप्रीतिर्जातस्नेहाभूत् । रसिका रसवती । रागवतीत्यर्थः । 'अत इनिठनौ' (५।२।११५) इतीठन्प्रत्ययः । सा का स्त्री एकान्ते रहसि तस्य कान्तस्य संपर्कं प्राप्य पुरा पुरुषप्रेरणात्पूर्वमेव का मोहनलीलां सुरतक्रीडां न कुरुते । सर्वापि स्त्री सर्वानपि सुरतविशेषान् कामतन्त्रप्रसिद्धान् विस्रब्धं चकारेत्यर्थः । तेन शृङ्गारस्य पराकाष्ठा प्राप्तेत्युक्तम् । मत्तमयूरं वृत्तम् ॥ ७६ ॥
अथैकेन हेमन्तमाह-
कान्ताजनेन रहसि प्रसभं गृहीत-
केशे रते स्मरसहासवतोषितेन ।
प्रेम्णा मनस्सु रजनीष्वपि हैमनीषु
के शेरते स रसहासवतोषितेन ॥ ७७ ॥