पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६२
शिशुपालवधे

यत नीता । 'नीहृकृष्वहाम्' इति नयतेर्द्विकर्मकता । शेषं पूर्ववत् । तोटकं वृत्तम् । 'वद तोटकमब्धिसकारयुतम्' इति लक्षणात् ॥ ७१ ॥

 अथ द्वाभ्यां वर्षर्तुं वर्णयति-

 मुदमब्दभुवामपां मयूराः सहसायन्त नदी पपाट लाभे ।
 अलिना रमतालिनी शिलीन्ध्रे सह सायन्तनदीपपाटलाभे ७२

 मुदमित्यादि ॥ अब्दभुवां मेघप्रभवानामपां लाभे । मेघे वर्षति सतीत्यर्थः । सहसा मयूरा मुदमानन्दमायन्तालभन्त । 'अय गतौ' लङि 'आडजादीनाम्' (६।४।७२) इत्याडागमे वृद्धिः । नदी पपाट । नद्यः प्रावहन्नित्यर्थः । 'अट पट गतौ' लिट् । जातावेकवचनम् । अलिना भृङ्गेण सह सायंतनः सायंभवः । "सायंचिरम्-'(४।३।२३) इत्यादिना ट्युप्रत्ययः तुडागमश्च । स चासौ दीपश्च तद्वत्पाटलाभे पाटलप्रभे इत्युपमालंकारः । तस्मिन् शिलीन्ध्रे कन्दलीकुसुमे अलि- न्यरमत । अत्र मयूरमोदप्राप्त्याद्यनेककर्तृकक्रियायोगपद्याद्भिन्नाधिकरणक्रियासमुच्च- यरूपः समुच्चयालंकारभेदः । 'गुणक्रियायौगपद्यं समुच्चयः' इति सामान्यलक्षणम् । औपच्छन्दसिकं वृत्तम् ॥ ७२ ॥

 कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं समयावनौ घनमदभ्रमराणि ।
 गगनं च गीतनिनदस्य गिरोच्चैः समया वनौघनमदभ्रमराणि ७३

 कुटजानीति ॥ शिखरीन्द्रं समया रैवतकाग्रे: समीपे । 'अभितःपरितःस- मया-' (वा०) इत्यादिना द्वितीया । अवनौ प्रदेशे घनमदा भ्रमरा येषु तानि घनमदभ्रमराणि कुटजानि कुटजकुसुमानि वनौघेन पयःपूरेण नमन्त्यभ्राणि मेघा यस्मिंस्तद्वनौघनमदभ्रम् । ‘पयः कीलालममृतं जीवनं भुवनं वनम्' इत्यमरः । गगनं च वीक्ष्य शिखिभिर्मयूरैर्गीतनिनदस्य गानध्वनेः समया तुल्यया । 'तुल्या- र्थैः-' (२।३।७२) इत्यादिना वैकल्पिकी षष्ठी । गिरा वाचा । केकयेत्यर्थः । उच्चैरराणि रणितम् । 'रण शब्दे' भावे लुङ् । चिणो लुक् । कुटजा वृत्तम् । 'सजसा भवेदिह सगौ कुटजाख्यम्' इति लक्षणात् ॥ ७३ ॥

 अथ त्रिभिः शरदं वर्णयति-

 अभीष्टमासाद्य चिराय काले समुद्धृताशं कमनी चकाशे ।
 योषिन्मनोजन्मसुखोदयेषु समुद्धृताशङ्कमनीचकाशे ॥ ७४ ॥

 अभीष्टमित्यादि ॥ कामयत इति कमनी कामयित्री । 'कम्रः कामयिता- भीकः कमनः कामनोऽभिकः' इत्यमरः । कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् । अनीचा उन्नताः काशा अश्ववाला यस्मिन्ननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषो येन तमभीष्टं प्रियं चिराय चिरकालेन । 'चिराय चिररात्राय' इत्यमरः । सम्यगुद्धृता उत्सृष्टा आशङ्का संकोचो यस्मिन्कर्मणि तत्समुद्धताशकं विस्रब्धं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत् सानन्दा सती चकाशे । विललासेत्यर्थः । अत्र

समुच्चकाश इति योषितः प्रियप्राप्तिनिमित्तहर्षाख्यभावनिबन्धनात् प्रेयोऽलंकारः ।।