पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । युधिष्ठिर उवाच - कस्मै भवान्मन्यतेऽर्घमेकस्मै कुरुनन्दन । उपनीयमानं युक्तं च तन्मे ब्रूहि पितामह ॥ वैशम्पायन उवाच – १३ ततो भीष्मः शान्तनवो बुद्ध्या निश्चित्य वीर्यवान् । वार्ष्णेयं मन्यते कृष्णं पूजनीयतमं भुवि ॥ ( शिशु० १४१५७ ) एष ह्येषां समस्तानां तेजोवलपराक्रमैः । मध्ये तपन्निवाभाति ज्योतिषामिव भास्करः ॥ असूर्यमिव सूर्येण निर्वातमिव वायुना । भासितं ह्लादितं चैव कृष्णेनेदं सदो हि नः ॥ तस्मै भीष्माभ्यनुज्ञातः सहदेवः प्रतापवान् । उदजहेऽथ विधिवद्वार्ष्णेयायाऽर्घमुत्तमम् ॥ प्रतिजग्राह तत्कृष्णः शास्त्रदृष्टेन कर्मणा । शिशुपालस्तु तां पूजां वासुदेवे न चक्षमे ॥ (शिशु० १५॥१ ) स उपालभ्य भीष्मं च धर्मराजं च संसदि । अथाऽऽक्षिपद्वासुदेवं चेदिराजो महाबलः ॥ ( इति ३६ अध्यायः । ) शिशुपाल उवाच - नाऽयमर्हति वार्ष्णेयस्तिष्ठत्स्विह महात्मसु । महीपतिषु कौरव्य राजवत्पार्थिवार्हणाम् ॥ नायं युक्तः समाचारः पाण्डवेषु महात्मसु । यत्कामात्पुण्डरीकाक्षं पाण्डवार्चितवानसि ॥ वाला यूयं न जानीध्वं धर्मः सूक्ष्मो हि पाण्डवाः । अयं च स्मृत्यतिक्रान्तो ह्यापगेयोऽल्पदर्शनः ॥ त्वादृशो धर्मयुक्तो हि कुर्वाणः प्रियकाम्यया । भवत्यभ्यधिकं भीष्मो लोकेष्ववमतः सताम् ॥ कथं ह्यराजा दाशार्हो मध्ये सर्वमहीक्षिताम् । अर्हणामर्हति तथा यथा युष्माभिरर्चितः ॥ अथ वा मन्यसे कृष्णं स्थविरं कुरुपुङ्गव । वसुदेवे स्थिते वृद्धे कथमर्हति तत्सुतः ॥ अथ वा वासुदेवोऽपि प्रियकामोऽनुवृत्तवान् । द्रुपदे तिष्ठति कथं माधवोऽर्हति पूजनम् ॥ आचार्य मन्यसे कृष्णमथ वा कुरुनन्दन | द्रोणे तिष्ठति वार्ष्णेयं कस्मादर्चितवानसि ॥ ऋत्विजं मन्यसे कृष्णमथ वा कुरुनन्दन ।