पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ शिशुपालवधे कर्मान्तरमुपासन्तो जजल्पुरमितौजसः ॥ इदमेवं न चाऽप्येवमेवमेवं न चान्यथा । प्रत्यूचुर्बहवस्तत्र वितण्डावादिनो द्विजाः ॥ न तस्यां सन्निधौ शूद्रः कश्चिदासीन्न चाव्रती । अन्तर्वेद्यां तदा राजन्युधिष्ठिर निवेशने ॥ तां तु लक्ष्मीवतो लक्ष्मीं तदा यज्ञविधानताम् । तुतोष नारदः पश्यन्धर्मराजस्य धीमतः ॥ अथ चिन्तां समापेदे स मुनिर्मनुजाधिप । नारदस्तु तदा पश्यन्सर्वक्षत्रसमागमम् ॥ सस्मार च पुरावृत्तां कथां तां पुरुषर्षभ । अंशावतरणे याऽसौ ब्रह्मणो भवनेऽभवत् ॥ देवानां संगमं तं तु विज्ञाय कुरुनन्दन | नारदः पुण्डरीकाक्षं सस्मार मनसा हरिम् ॥ साक्षात्स विबुधारिघ्नः क्षत्रे नारायणो विभुः । प्रतिज्ञां पालयंश्चेमां जातः परपुरंजयः ॥ संदिदेश पुरा योऽसौ विबुधान्भूतकृत्स्वयम् । अन्योन्यमभिनिघ्नन्तः पुनर्लोकानवाप्स्यथ || इति नारायणः शम्भुर्भगवाञ्जगतः प्रभुः । आदिश्य विबुधान्सर्वानजायत यदुक्षये ॥ क्षितावन्धकवृष्णीनां वंशे वंशभृतां वरः । परऱ्या शुशुभे लक्ष्म्या नक्षत्राणामिवोडुराट् ॥ अहो वत महद्भूतं स्वयंभूर्यदिदं स्वयम् । आदास्यति पुनः क्षत्रमेवं बलसमन्वितम् ॥ इत्येतां नारदश्चिन्तां चिन्तयामास धर्मवित् । हरिं नारायणं ज्ञात्वा यज्ञैरिज्यं तमीश्वरम् ॥ तस्मिन्धर्मविदां श्रेष्ठो धर्मराजस्य धीमतः । महाध्वरे महावुद्धिस्तस्थौ स बहुमानतः ॥ ततो भी मोऽब्रवीद्राजन्धर्मराजं युधिष्ठिरम् | क्रियतामर्हणं राज्ञां यथार्हमिति भारत ॥ आचार्यमृत्विजं चैव संयुजं च युधिष्ठिर । स्नातकं च प्रियं प्राहुः षडर्ध्यान्नृपं तथा ॥ (शिशु० १४/५५ ) पानयनभिगुतानाहुः संवत्सरोषितान् । त इमे कालपूगस्य महतोऽस्मानुपागतः ॥ (शिशु० १४/५६) एषामेकैकशो राजन्नर्घ आनीयतामिति । अथ चैषां वरिष्ठाय समर्थायोपनीयताम् ॥ (शिशु० १४१५७ )