पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । समुपादाय रत्नानि विविधानि महान्ति च ॥ धृतराष्ट्रश्च भीष्मश्च विदुरश्च महामतिः । दुर्योधनपुरोगाश्च भ्रातरः सर्व एव ते ॥ एते चान्ये च बहवो राजानो मध्यदेशजाः । आजग्मुः पाण्डुपुत्रस्य राजसूयं महाऋतुम् ॥ ददुस्तेषामावसथान्धर्मराजस्य शासनात् । बहुभक्ष्यान्वितान्यजन्दीर्घिकावृक्षशोभितान् ॥ तथा धर्मात्मजः पूजां चक्रे तेषां महात्मनाम् । सत्कृताश्च यथोद्दिष्टाञ्जग्मुरावसथान्नृपाः ॥ विश्रान्तास्ते ततोऽपश्यन्भूमिपा भूरिदक्षिणम् । वृतं सदस्यैर्बहुभिर्धर्मराजं युधिष्ठिरम् ॥ तत्सदः पार्थिवैः कीर्ण ब्राह्मणैश्च महर्षिभिः । भ्राजते स्म तदा राजन्नाकपृष्ठं यथामरैः ॥ (इति ३४ अध्यायः ।) वैशम्पायन उवाच- पितामहं गुरुं चैव प्रत्युद्गम्य युधिष्ठिरः । अभिवाद्य ततो राजन्निदं वचनमब्रवीत् ॥ भीष्मं द्रोणं कृपं द्रौणिं दुर्योधन विविंशती । अस्मिन् यज्ञे भवन्तो मामनुगृह्णन्तु सर्वशः ॥ इदं वः सुमहञ्चैव यदिहाऽस्ति धनं मम । प्रणयन्तु भवन्तो मां यथेष्टमभिमन्त्रिताः ॥ एवमुक्त्वा स तान्सर्वान्दीक्षितः पाण्डवाग्रजः | युयोज स यथायोगमधिकारेष्वनन्तरम् ॥ कथं तु मम कौरव्यो रत्तदानैः समाप्नुयात् । यज्ञमित्येव राजानः स्पर्धमाना ददुर्धनम् ॥ भवनैः सविमानाग्रैः सोदर्केर्बलसंवृतैः । लोकराजविमानैश्च ब्राह्मणावसथैः सह ॥ राजभिश्च समावृत्तैरतीव श्रीसमृद्धिभिः । अशोभत सदो राजन्कौन्तेयस्य महात्मनः ॥ ऋद्ध्या च वरुणं देवं स्पर्धमानो युधिष्ठिरः | षडग्निनाऽथ यज्ञेन सोऽयजद्दक्षिणावता ॥ सर्वाअनान्सर्वकामैः समृद्धैः समतर्पयत् ॥ अन्नवान्बहुभक्ष्यश्च भुक्तवज्जनसंवृतः । रत्नोपहारसंपन्नो बभूव स समागमः ॥ (इति ३५ अध्यायः ।) वैशम्पायन उवाच - ततोऽभिषेचनीयेऽह्नि ब्राह्मणा राजभिः सह । अन्तर्वेदीं प्रविविशुः सत्कारार्हा महर्षयः ॥