पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिशुपालव उपश्रुत्य वचो राज्ञः स दूतान्प्राहिणोत्तदा || आमन्त्रयध्वं राष्ट्रेषु ब्राह्मणान्भूमिपानथ | विशश्च मान्याञ्शूद्रांश्च सर्वानानयतेति च ॥ वैशम्पायन उवाच - समाज्ञप्तास्ततो दूताः पाण्डवेयस्य शासनात् । आमन्त्रयांबभूवुश्च आनयंश्चाऽपरान्द्रुतम् । ॥ तथा परानपि नरानात्मनः शीघ्रगामिनः ॥ • ततस्ते तु यथाकालं कुन्तीपुत्रं युधिष्ठिरम् । दीक्षयाञ्चक्रिरे विप्रा राजसूयाय भारत ॥ दीक्षितः स तु धर्मात्मा धर्मराजो युधिष्ठिरः । जगाम यज्ञायतनं वृतो विप्रैः सहस्रशः ॥ अमात्यैश्च नरश्रेष्ठो धर्मो विग्रहवानिव । आजग्मुर्ब्राह्मणास्तत्र विषयेभ्यस्ततस्ततः ॥ • सर्वविद्यासु निष्णाता वेदवेदाङ्गपारगाः | तेषामावसथांश्चक्रुर्धर्मराजस्य शासनात् || वह्नन्नाच्छादनैर्युक्तान्सगणानां पृथक्पृथक् । सर्वर्तुगुणसंपन्नाञ्शिल्पिनोऽथ सहस्रशः || भुञ्जतां चैव विप्राणां वदतां च महास्वनः । अनिशं श्रूयते तत्र मुदितानां महात्मनाम् ॥ दीयतां दीयतामेषां भुज्यतां भुज्यतामिति । एवंप्रकाराः संजल्पाः श्रूयन्ते स्मात्र नित्यशः ॥ गवां शतसहस्राणि शयनानां च भारत । रुक्मस्य योषितां चैव धर्मराजः पृथग्ददौ || प्रावर्ततैवं यज्ञः स पाण्डवस्य महात्मनः । पृथिव्यामेकवीरस्य शक्रस्येव त्रिविष्टपे ॥ ततो युधिष्ठिरो राजा प्रेषयामास पाण्डवम् । नकुलं हस्तिनपुरं भीष्माय पुरुषर्षभः ॥ (इति ३३ अध्यायः ।) वैशम्पायन उवाच - स गत्वा हास्तिनपुरं नकुलः समितिंजयः । भीष्ममामन्त्रयांचत्रे धृतराष्ट्रं च पाण्डवः ॥ सत्कृत्याऽऽमन्त्रितास्तेन आचार्यप्रमुखास्ततः । प्रययुः प्रीतमनसो यज्ञं ब्रह्मपुरःसराः ॥ संश्रत्य धर्मराजस्य यज्ञं यज्ञविदस्तदा । उनन्ये च शतशस्तुष्टैर्मनोभिर्भरतर्षभ || द्रष्टुकामाः सभां चैव धर्मराजं च पाण्डवम् । दिग्भ्यः सर्वे समापेतुः क्षत्रियास्तत्र भारत |