पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिशिष्टम् । शिशुपालवधकाव्यमेतत् महाभारतीय-सभापर्वान्तर्गत - राजसूय- अर्घाहरण- शिशुपालवधपर्वगतप्रतिपाद्यशिशुपालवधकथामाश्रित्य व्यररचत्कविशिरोमणिर्मा- घकविरिति विभाव्यते, किंच महाभारते 'अपराधशतं क्षाम्यं मातुरस्यैव याचने । दत्तं मया याचितं च तद्वै पूर्ण हि पार्थिवाः' इति नृपानुक्त्वा सद्य. सभायामेव श्रीकृष्णः शिशुपालस्य शिरो व्यपाहरदिति वर्णनं वरीवर्ति, काव्ये चैतस्मिन् कृष्णः समरमूर्ध्नि शिशुपालं जघानेत्येतावानेव विशेषो दरीदृश्यते । तथा च महाभारतीयकथाश्रयणेनैव काव्यस्यास्य विरचितत्वात्तयोर्मिथः साम्यज्ञापनायात्र समुद्रियन्ते कतिचिदध्यायगत श्लोकास्तत्रत्याः । माघश्च यं यं महाभारतीयश्लोकार्थ- मनुसृत्य काव्यश्लोकं ग्रथितवान् स च श्लोकश्चिह्नितः काव्याङ्कप्रदर्शनेन यत्र तत्र | वैशम्पायन उवाच – अनुज्ञातस्तु कृष्णेन पाण्डवो भ्रातृभिः सह । ईजितुं राजसूयेन साधनान्युपचक्रमे ॥ ततस्त्वाज्ञापयामास पाण्डवोऽरिनिबर्हणः । सहदेवं युधां श्रेष्ठं मन्त्रिणश्चैव सर्वशः ॥ अस्मिन्ऋतौ यथोक्तानि यज्ञाङ्गानि द्विजातिभिः । तथोपकरणं सर्व मङ्गलानि च सर्वशः ॥ अधियज्ञांश्च संभारान्धौम्योकान्क्षिप्रमेव हि । समानयन्तु पुरुषा यथायोगं यथाक्रमम् ॥ सर्वकामाश्च कार्यन्तां रसगन्धसमन्विताः । मनोरथप्रीतिकरा द्विजानां कुरुसत्तम ॥ तद्वाक्यसमकालं च कृतं सर्व न्यवेदयत् । सहदेवो युधां श्रेष्ठो धर्मराजे युधिष्ठिरे ॥ ततो द्वैपायनो राजन्नत्विजः समुपानयत् । वेदानिव महाभागान्साक्षान्मूर्तिमतो द्विजान् ॥ स्वयं ब्रह्मत्वमकरोत्तस्य सत्यवतीसुतः । धनञ्जयानामृषभः सुसामा सामगोऽभवत् ॥ याज्ञवल्क्यो बभूवाथ ब्रह्मिष्ठोऽध्वर्युसत्तमः । पैलो होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥ एतेषां शिष्यवर्गाश्च पुत्राश्च भरतर्षभ । बभूवुर्होत्रगाः सर्वे वेदवेदाङ्गपारगाः ॥ ते वाचयित्वा पुण्याहमूहयित्वा च तं विधिम् । शास्त्रोक्तं पूजयामासुस्तद्देवयजनं महत् ॥ तत आज्ञापयामास स राजा राजसत्तमः । सहदेवं तदा सद्यो मन्त्रिणं पुरुषर्षभः ॥ आमन्त्रणार्थ दूतांस्त्वं प्रेषयस्वाऽऽशुगान्द्रुतम् । 2