पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
शिशुपालवधे

इत्यादिना समासान्तः । विशाले च विषाणे यस्मिन्कर्मणि तद्यथा तथा निःसप- त्रमप्रतिपक्षं सुरभीरनु गवां पृष्ठतः । 'कर्मप्रवचनीययुक्ते द्वितीया' (२।३/8) जग्मे गतम् । भावे लिट् ॥ ६४ ॥

  विभ्राणमायतिमतीमवृथा शिरोधिं
   प्रत्यग्रतामतिरसामधिकं दधन्ति ।
  लोलोष्ठमौष्ट्रकमुदग्रमुखं तरूणा-
   मभ्रंलिहानि लिलिहे नवपल्लवानि ॥६५॥

 बिभ्राणमिति ॥ आयतिमतीं दैर्ध्यवतीम् । न च वृथा दैर्ध्यमित्याह-अवृ- थेति । उच्चस्तरपल्लवग्रहणात्सफलामित्यर्थः । शिरो धीयतेऽस्यामिति शिरोधिं ग्रीवाम् । 'शिरोधिः कंधरेत्यपि' इत्यमरः । 'कर्मण्यधिकरणे च' (३।३।९३) इति किप्रत्ययः । बिभ्राणं दधानम् । उदग्रमुखं पल्लवग्रहणार्थमूर्ध्वोक्षिप्ततुण्डमौ- ष्ट्रकमुष्ट्रसमूहः । 'गोत्रोक्ष-' (४।२।३९) इत्यादिना वुञ् । अधिकमतिशयितो रसः स्वादो यस्यां तामतिरसां प्रत्यग्रतामभिनवत्वं दधन्ति दधति । 'वा नपुंसकस्य-' (७।१।७९) इति वैकल्पिको नुमागमः । अभ्रं लिहन्तीत्यभ्रंलिहान्युच्चतराणि । 'वहाभ्रे लिहः' (३।२।३२) इति खश्प्रत्ययः । 'अरुर्द्विषत्-' (६।३।६७) इत्यादिना मुमागमः । तरूणां नवपल्लवानि । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । लोलोष्ठं यथा तथा । 'ओत्वोष्ठयोः समासे वा' (वा.) इति पररूपं वक्तव्यम् । लिलिहे आस्वादयामास । जघासेत्यर्थः ॥ ६५॥

  सार्धं कथंचिदुचितैः पिचुमर्दपत्रै-
   रास्यान्तरालगतमाम्रदलं म्रदीयः ।
  दासेरकः सपदि संवलितं निषादै-
   र्विप्रं पुरा पतगराडिव निर्जगार ॥ ६६ ॥

 सार्धमिति ॥ उचितैरभ्यस्तैः । 'अभ्यस्तेऽप्युचितं न्याय्यम्' इति यादवः । पिचुमर्दपत्रैर्निम्बदलैः सार्धम् । 'पिचुमर्दश्च निम्बेऽथ' इत्यमरः । कथंचित् प्रमादात् आस्यान्तरालगतं मुखान्तर्गतं म्रदीयो मृदुतरमाम्रदलं चूतपल्लवं दासेरक उष्ट्रः पुरा निषादैर्लेच्छैः संवलितं युक्तं विप्रं पतगराट् गरुत्मानिव निर्जगार उद्गीर्ण- वान् । पुरा किल कुतश्चित्कारणात् म्लेच्छभक्षणे तैः संह अन्तः प्रविश्य गलं दहन्तं विप्रं गरुड उजगारेति पौराणिकी कथानानुसंधेया ॥ ६६ ॥

  स्पष्टं बहिः स्थितवतेऽपि निवेदयन्त-
   श्चेष्टाविशेषमनुजीविजनाय राज्ञाम् ।
  वैतालिकाः स्फुटपदप्रकटार्थमुच्चै-
   र्भोगावलीः कलगिरोऽवसरेषु पेठुः ॥ ६७ ॥

[* सेयम्-'तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया । दहन्दीप्त इवाङ्गारस्तमु- वाचान्तरिक्षगः । द्विजोत्तम ! विनिर्गच्छ तूर्णमस्मादपावृतात् ॥' इत्यादि महाभा० आदि०

२९ अध्यायोक्ता ज्ञेया।]